तावदेव विनिश्चित्य तदुपादीयतेऽर्थिभिः।
तदेवोपाददानैश्च फलमप्यधिगम्यते॥ ७॥
कारकत्वं च पक्षेऽस्मिन्नास्ति किञ्चिदतीन्द्रियम्।
कारकत्वं स्वरूपस्य सहकार्यादिसन्निधिः॥ ८॥
निर्व्यापारस्य नन्वस्य को गुणस्सहकारिभिः।
व्यापारयोगिनोऽप्यस्य को गुणस्सहकारिभिः॥ ९॥
अथ व्यापार एवैष सर्वैः संभूय साध्यते।
किं फलेनापराद्धं वस्तद्धि संभूय साध्यताम्॥ १०॥
तस्मात् कारकचक्रेण चलता जन्यते फलम्।
न पुनश्चलनादन्यो व्यापार उपलभ्यते॥ ११॥