पिठरे सत्यपीमानि ज्वलन्तीत्येव मे मतिः॥ १६॥
२. तस्मात् क्रियान्तराभावात् काष्ठाम्बुपिठरादयः।
संसृज्यन्तां फलायैव किमदृष्टेन कर्मणा॥ १७॥
ननु च फलं सिद्धं साध्यं वा ?
सिद्धं चेत् कारकान्तराण्यपि सिद्धानीति संसर्गाभावः। अथ साध्यं, सैव कारकव्यापारव्यतिरिक्ता क्रियेति।
तन्न, फलस्य क्रियात्वानुपपत्तेः। ओदनो हि फलं, न क्रिया; क्रियानाम्नि तु क्रियमाणे न विप्रतिपत्तिः।
पाकस्तर्हि कः ? (न च) पचेर्वाच्यशून्यतैव युक्ता; उच्यते— समुदितदेवदत्तादिकारक— निकरपरिस्पन्द एव विशिष्टफलावच्छिन्नः पाकः। स एव च पचेरर्थः; देवदत्तादिक्रिया हि चलनज्वलनादिरूपाः पृथक्तयैवावभासन्ते, समुदितास्तु सत्यः फलान्तरावच्छेदाद् रूपान्तरेण पाकादिना परिस्फुरन्ति, व्यपदिश्यन्ते च; तथा देवदत्तः पचतीतिवत् काष्ठानि पचन्ति, स्थाली पचतीत्यपि व्यपदेशो भवति। ननु च यथा स्थाली पचति काष्ठानि पचन्तीति दृश्यते, नैवम् ओदनः। पचति, तण्डुलाः पचन्तीति।
सत्यमेतत्, कारणं तु वाच्यम्।
किं तदिति चेत् पचेरकर्मकक्रियात्वमेव।