भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 141 to 150 of 756 verses
नन्वोदनस्य तण्डुलानां वा कर्तृत्वं, न तूभयोस्संभवति।

नैवम्, तण्डुलानोदनं पचतीत्यपि व्यपदिश्‍यते।

न च कर्मवद्‌भावात् न कर्तृप्रत्ययः। नन्वेवं सति, ओदनतण्डुलानां निर्वृत्ति— विकारयोस्स्वातन्त्र्यात् सिध्यति ओदनोऽपि क्‍लिद्यन्ति, तण्डुला इत्यपि न स्यात्। तन्न;

निर्वर्त्यादिषु तत्पूर्वमनुभूय स्वतन्त्रताम्।

कर्त्रन्तराणां व्यापारे कर्म संपद्यत पुनः॥ १८॥

(वाप. ३.७.५४)

भवतु नाम तण्डुलानां सिद्धानां कथञ्चिदेतत्, ओदनस्य तु साध्यस्य नोपपद्यते।

नैवम्, भवत्यर्थे सर्वस्य कर्तृत्वात् भवत्यर्थश्‍च सिध्यतीति न दोषः। कथं न दोषः ?

३. यद्योदनो न पक्तव्यः पक्तव्यो यदि नोदनः।

यथा—

Showing 141 to 150 of 756 verses