तथाहि — देवदत्तश्चलतीत्यत्र किं प्रतीयते ? युगीमादत्ते, आ XXX उदकमासिञ्चति, तण्डुलानावपतीति। एवं कारकान्तरव्यापारेष्वपि द्रष्टव्यम्।
ननु देवदत्तादेर्भौतिको व्यापारः आत्मव्यापारपूर्वको भवितुमर्हति।
नैतदेवम्, न ह्यात्मनो व्यापारः कश्चिदस्ति, इच्छाद्वेषपूर्वकप्रयत्नशादेव स भौतिकव्यापारकारणतां प्रतिपद्यते। चलतीति प्रतीतिवत् पचतीति प्रतीतिरपि प्रत्यक्ष— क्रियालम्बनैवेति।
अत्रानुमेयक्रियावादिनस्समादधते—
अस्तु नाम देवदत्तादिकारकनिकरपरिस्पन्दसमुदायः क्रिया। किन्तु पचतीत्यादा— वधिश्रयणावचपनविचटनादीनां समुदायं किमायुष्मान् क्रियेति मन्यते।
पृच्छामि चायुष्मन्तं किमधिश्रयणादयः क्रियाव्यपदेशमेकशो वा लक्षेरन् ? न तावदेकशः, क्रमरूपाभावात्। एतच्च तत्क्रियायाः क्रियात्वं यदुत साधेनैस्साध्यमानता क्रमरूपोपादानं च। न चैकस्य क्रमस्संभवति, अवश्याभिधेयश्चेतदुपात्तक्रमस्साध्य— तयाऽभिधीयमानपदार्थः क्रियेति। अन्यथा हि पाकदीनामुपसंहृतक्रमाणामपि क्रियात्वप्रसङ्गः। ते हि पर्यवसिताः स्वरूपतयोपसंहृतक्रमा एव स्वशब्दैरभिधीयन्ते। तेषां पूर्वापरीभावविरहान्न क्रियात्वम्। अत एव ते साधनभावेन तैश्शब्दैरुपादीयन्ते, न साध्यभावेन। पाकं करोतीत्यादौ हि साधनविशेषनिबन्धना विभक्तिरुपलभ्यते, द्वितीयानिर्वृत्तिरूपं च साधननमुपपद्यते।
नन्वेवम् अस्ति विद्यते तिष्ठतीत्यादीनामपि न क्रियात्वं प्रसजेत्, यावता नेहापि क्रम उपलभ्यते।