भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 161 to 170 of 756 verses
(वाप. ३.८.९)

तथाहि — देवदत्तश्‍चलतीत्यत्र किं प्रतीयते ? युगीमादत्ते, आ XXX उदकमासिञ्चति, तण्डुलानावपतीति। एवं कारकान्तरव्यापारेष्वपि द्रष्टव्यम्।

ननु देवदत्तादेर्भौतिको व्यापारः आत्मव्यापारपूर्वको भवितुमर्हति।

नैतदेवम्, न ह्यात्मनो व्यापारः कश्‍चिदस्ति, इच्छाद्वेषपूर्वकप्रयत्‍नशादेव स भौतिकव्यापारकारणतां प्रतिपद्यते। चलतीति प्रतीतिवत् पचतीति प्रतीतिरपि प्रत्यक्ष— क्रियालम्बनैवेति।

अत्रानुमेयक्रियावादिनस्समादधते—

अस्तु नाम देवदत्तादिकारकनिकरपरिस्पन्दसमुदायः क्रिया। किन्तु पचतीत्यादा— वधिश्रयणावचपनविचटनादीनां समुदायं किमायुष्मान् क्रियेति मन्यते।

ओमिति ब्रुमः।

किमर्थँ सर्वाण्येवेति ?

पृच्छामि चायुष्मन्तं किमधिश्रयणादयः क्रियाव्यपदेशमेकशो वा लक्षेरन् ? न तावदेकशः, क्रमरूपाभावात्। एतच्च तत्क्रियायाः क्रियात्वं यदुत साधेनैस्साध्यमानता क्रमरूपोपादानं च। न चैकस्य क्रमस्संभवति, अवश्‍याभिधेयश्‍चेतदुपात्तक्रमस्साध्य— तयाऽभिधीयमानपदार्थः क्रियेति। अन्यथा हि पाकदीनामुपसंहृतक्रमाणामपि क्रियात्वप्रसङ्गः। ते हि पर्यवसिताः स्वरूपतयोपसंहृतक्रमा एव स्वशब्दैरभिधीयन्ते। तेषां पूर्वापरीभावविरहान्न क्रियात्वम्। अत एव ते साधनभावेन तैश्शब्दैरुपादीयन्ते, न साध्यभावेन। पाकं करोतीत्यादौ हि साधनविशेषनिबन्धना विभक्तिरुपलभ्यते, द्वितीयानिर्वृत्तिरूपं च साधननमुपपद्यते।

नन्वेवम् अस्ति विद्यते तिष्ठतीत्यादीनामपि न क्रियात्वं प्रसजेत्, यावता नेहापि क्रम उपलभ्यते।

Showing 161 to 170 of 756 verses