औषसातपभयादपलीनं वासरच्छविविरामपटीयः।
सन्निपत्य शनकैरिव निम्नादन्धकारमुदवाप समानि ॥ ३१ ॥
(२) उपात्तविषयमपि द्विधा— हेयमुपादेयं च।
तयोराद्यं यथा—(किराता. ८.७)
करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम्।
उपेयुषी कल्पलताभिशङ्कया कथं नु वित्रस्यति षट्पदावली ॥ ३२ ॥
अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्वती।
पश्चिमाद्यामिनीयामात् प्रसादमिव चेतना ॥ ३३ ॥
(३) अपेक्षितक्रियमपि द्विधैव— सामान्यापेक्षं विशेषापेक्षं च। तयोराद्यं यथा—(माघ. १०.२१)