त्रिधा स्फोटस्स्फुटत्यस्मादतोऽस्ते घटादयः ॥ १३९ ॥
उक्तः क्रमाद् द्वादशभेदभिन्नश्शब्दप्रपञ्चोऽयमनादिसिद्धः।
अथार्थमूर्त्त्याऽस्य विवर्तमाद्यं तावत्प्रकारं प्रतिपादयामः ॥ १४० ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे
प्रकृत्यादिशब्दप्रकाशो नाम
तृतीय एषोऽस्ति मया प्रकाशः प्रसाधितो हन्त सनातनेन।
भोजप्रकाशः प्रकिरेत् प्रकाशं साहित्य—सौहित्य—समुत्सुकेषु ॥
१. अन्नपूर्णं पिठरादि पात्रम्। मनुः ३.२२४। २. नकारं राघवो न पठति HOS २००