द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर्लोड् विधीयते।
सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः॥ ११७॥
(अधिकरणम्) निमित्तात्मकस्तु क्रियाश्रयत्वात् सप्तमीवाच्यो नैमित्तिकमधिकरणमिति विभक्तमधिकरणम्।
ननु च उप खार्यां द्रोणः, अधि पाञ्चालेषु ब्रह्मदत्त इत्यादौ यद्यधिकरण एव सप्तमी अधिकं किमर्थम् उच्यते 'यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी' (२.३.९) इति। उच्यते 'कर्मप्रवचनीययुक्ते द्वितीया (२.३.८) मा बाधिष्ट' इति।
ननु च 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' (मभा. २.३.४) इति द्वितीया न भविष्यति, यथा गोः स्वामी व्रजति, देवान् नमस्करोतीति।
नैवम्; नेयमुपपदविभक्तिः, अपि त्वन्तर्भूतक्रियान्तरसंबन्धा कर्मविभक्तिः।
तद्यथा शाकल्यस्य संहितामनु प्रावर्षत्, संहितामनु निशम्य इत्यर्थः।