अभिव्यापकं यथा— तिलेषु तैलम्, शैलेषु रागः, गवि गोत्वं, तन्तुषु पटः।
सामीप्यकं यथा— गुरौ वसति, तीर्थे वसति, गङ्गायां घोषः, कूपे गर्गकुलम्।
औपश्लेषिकं यथा—द्वयहे भोक्ता, कार्तिक्या आग्रहायणी मासे, इहस्थोऽयमिष्वासः क्रोशे लक्ष्यं विध्यति, पाटलिपुत्राद् राजगृहं सप्तसु योजनेषु।
औपशल्यकं यथा— उप खार्यां द्रोणः, उप निष्के कार्षापणम्, उप व्यामे वितस्तिः, उप शते पञ्चाशत्।
औपचारिकं यथा— यो यस्य प्रियस्स तस्य हदये वसति, यो यस्य द्वेष्यस्स तस्याक्ष्णोः प्रतिवसति, समः समग्रो मुष्टिमध्ये तिष्ठति, अङ्गुल्यग्रे हस्तियूथशतमास्त इति।
निमित्तमेव नैमित्तिकम्; तदपि षोढैव— देशनैमित्तिकं कालनैमित्तिकं भावनैमित्तिकं वस्तुनैमित्तिकं कर्मनैमित्तिकं कर्मयोगनैमित्तिकमिति। तेषु —
देशनैमित्तिकं यथा—गेहे मोदते, अरण्ये बिभेति, जले मज्जति, श्वभ्रे पतति।
काशाः पुष्प्यन्ति मेघान्ते मधौ माद्यन्ति कोकिलाः।