भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 661 to 670 of 689 verses
विजातीयेन प्रस्थान—सेतुबन्धन—विवरणादौ,

उभाभ्यां भारतीयदशरूपकलक्षणादावस्य प्रयोगो दृश्यते।

गद्यप्रधानमपि तद्‍वदेव त्रिधा— तत्र सजातीयेन पञ्चतन्त्र—चकेटा(चेटक) . . . दौ, विजातीयेन कात्यायनीय—पाणिनीय—प्राकृतलक्षणादौ, उभाभ्यां मयूरशुक— मार्जारिकादावस्य प्रयोगा द‍ृश्यन्ते।

तुल्यरूपमपि त्रिधैव सजातीयाभ्यां, विजातीयाभ्यां, सजातीयविजातीयाभ्यां चेति।

तत्र सजातीयाभ्यां चम्पू—समीक्षा—सट्टकादौ,

विजातीयाभ्यामपि मार—साम्ब—गोविन्दाख्यानकादौ;

सजातीयविजातीयाभ्यां नाटक—नाटिकादि—विदग्धमुखमण्डनादावस्य प्रयोगो द‍ृश्यते।

प्रकृत्यादिविभागेन सैष द्वादशधा स्थितः।

अर्थावसायप्रसवनिमित्तं शब्द इष्यते ॥ १३७ ॥

(स्फोट. ३)