भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 661 to 670 of 1013 verses
ननु च तत्पुरुषस्योत्तरपदार्थप्रधानत्वात् तत्र परवल्लिङ्गतातिदेशोऽनर्थकः।

नानर्थकः, तत्पुरुषस्य क्वचित् पूर्वपदार्थप्रधानत्वात्, यथा 'अर्धं' पिप्पल्या अर्धपिप्पली (२.४.२६ मभा.), पूर्वं कायस्य पूर्वकायः, उत्तरं शरीरस्योत्तरशरीरम् इति। यद्येवं 'प्राप्तो जीविकां प्राप्तजीविकः, निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः, अलंकुमार्यै अलंकुमारिः' इत्यत्रापि परवल्लिङ्गता प्राप्नोति।

एवं तर्हि, द्वन्द्वेन सह निर्देशाच्चार्थाविषयोऽत्र तत्पुरुषो गृह्यते; यथा १'क्रयाक्रयिका, पुटापुटिका, फलाफलिकेति, २अश्‍वमतल्लिका कुमारीतल्लजकः, गोप्रकाण्डम्' इति। अत्र हि, यथा धवश्‍च खदिरश्‍चेति युगपदधिकरणवचनतायां तथा समानाधिकरणतायामपि विशेषणविशेष्यभावेन संमूर्च्छन्ताविवान्योन्यमर्थौ भवतः। तथाहि प्रयोजनवत्तया महत्त्वाश्रयश्‍चासावल्पमूल्यत्वेन लघुत्वात् क्रयिका चेत्युपपद्यते नीलोत्पलादिवद् विशेषणविशेष्यभावः। एवं फलाफलिका, पुटापुटिकेति। अश्‍वमतल्लिकेत्यत्राश्‍वशब्दः प्रवर्त्तमानः सर्वाश्‍वावग्रहरूपेण प्रवर्त्तते; मतल्लिकाशब्दः प्रशंसावचन प्रवर्त्तमानो विशिष्टावग्रहरूपेणावच्छिनत्ति। यादि वा— मतल्लिकेत्येतत् प्रशंसावचनं न्यूनाधिकभावमनपेक्ष्य प्रवर्त्तमानमनेनैव धर्म्मेण सर्वयोग्यं सत् अश्‍व इत्यनेन विशिष्टायां योग्यतायां नियम्यते। ततो यथा शुक्लः कृष्णश्‍चायं मृगः सारङ्गः शबल इति वा तथाऽश्‍वमतल्लिकेत्येतदुभयरूपोऽर्थ इत्युभयमुभयेन सन्निवेश्‍यते। एवं कुमारीतल्लजकः गोप्रकाण्डमिति।

१. 'महान् क्रयः क्रयः, अल्पीयाँस्तु क्रयिका' इति न्यासः। मभा. २.१.६० वा. ५। २. काशिका २.१.६६।

यद्येवम् अर्धपिप्पलीत्यादिषु षष्ठीसमासापवादेषु परवल्लिङ्गता न प्राप्नोति।

नैवम्। तत्रापि अर्धं च तत् पिप्पलीति चार्धपिप्पलीति, पूर्वश्‍चासौ कार्यश्‍च पूर्वकाय इति सामानाधिकारण्यमेव परमार्थः। अत एव यत्र सामानाधिकरण्यस्यासम्भवः तत्र षष्ठीसमास एव भवति, यथा— वेद्यर्धं दाक्षिणं मेरोः (?), स्वरार्धम्, चूडिकार्धम्, पणार्धम् इति। न चार्धादीनामेवैष नियमः, यतोऽन्यत्रापि सामानाधिकरण्यस्य विवक्षाऽविवक्षाभ्यामुभयथा तत्पुरुषो भवति, तद्यथा 'अग्रहस्तः, हस्ताग्रम्, १तलपादः, पादतलम्' इति (मभा. २.२.६९, न्यासश्‍च) ॥

ननु च 'चार्थे द्वन्द्वः' (२.२.२९) इत्युच्यते २चश्‍चाव्ययं तेन समासस्याव्ययसंज्ञा प्राप्नोति।

नैष दोषः। ३पाठेनाव्ययसंज्ञा क्रियते। न च समासस्तत्र पठ्यते।

मा भूदपाठे संज्ञा तथाप्यभिधेयवल्लिङ्गवचनानि भवन्ति, यश्‍चेहार्थोऽभिधीयते, न तस्य लिङ्गसंख्याभ्यां योगोऽस्ति। नेदं वाचनिकम् अलिङ्गता असंख्यता च। किं तर्हि ? स्वाभाविकमेतत्। तद्यथा समानमीहमानानामधीयानानां केचिदर्थेन युज्यन्ते, अपरे न; चेदानीं कश्‍चिदर्थवानित्यतः सर्वैरर्थवद्भिः शक्यं भवितुम्, कश्‍चिद् वाऽनर्थक इति सर्वैरनर्थकैः। तत्र किमस्माभिः शक्‍यं वक्‍तुम्, यत् प्राक् समासात् लिङ्गसंख्याभ्यां योगो नास्ति, समासे च भवति।

अथवा आश्रयतो लिङ्गवचनानि भविष्यन्ति। गुणवचनानां हि शब्दानामाश्रयता लिङ्गवचनानि भवन्ति। तद्‍यथा शुक्‍लं वस्त्रम्, शुक्‍ला शाटी, शुक्‍लः कम्बलः, शुक्‍लौ कम्बलौ, शुक्‍लाः कम्बला इति। यदसौ द्रव्याश्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च १. २.२.३—अष्टाध्याय्यां 'तलाग्रादयश्‍चे'ति भोजस्य योगः। स च वामनस्यानुकारः। तथाहि काव्यालङ्कारसूत्रवृत्तिः— ५.२.२०— हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात्। हस्ताग्रमग्रहस्तः पुष्पाग्रमग्रपुष्पम् इत्यादयः प्रयोगाः कथम् 'आहिताग्न्यादिषु अपाठात्, पाठे वा तदनियमः स्यात्।' आह गुणगुणिनोर्भेदाऽभेदात्। तत्र भेदात् हस्ताग्रादयः, अभेदाद् अग्रहस्तादय' इति। २. मभा. २.२.२९। ३. पाठेन— 'सूत्रगतेने'ति भावः वस्तुतस्तु व्याहारमात्रगत एष भेदो, न तु व्यवहारेऽपि। अत एव पत्नीति वक्‍तव्ये 'दारा' इत्युच्यमानं न दोषाय। व्याहार एव हि परायणं शिष्टानां व्यवहारनियमने। राघवेणाऽत्र नाङ्गीकृतः पाण्डुलेखनिगडः, अर्थसङ्गतिं पश्‍यता। धन्य एष। तद् गुणस्यापि; यदसौ द्रव्यं श्रितो भवति समासः, लिङ्गं वचनं च तत् समासस्यापि भविष्यति।

Showing 661 to 670 of 1013 verses