कथं पुनश्चे नामवृत्तिः स्यात् ?
शब्दो ह्येष शब्देऽसम्भवादर्थे कार्यं विज्ञास्यते। सोऽयमेवं सिद्धे सिद्धे सति यदर्थग्रहणं करोति तस्यैतत् प्रयोजनम्। यथैवं विज्ञायेत 'चकृतेऽर्थे चार्थ' इति।
समुच्चयः, अन्वाचयः, इतरेतरयोगः, समाहार इति।
तत्र द्वयोः सापेक्षत्वात् समासो न भवति (समासो भवति)।
द्वयोस्तु भवतीति प्रतिपादितं पुरस्तात्।
ननु चैवं 'चकृतोऽर्थश्चार्थ' इति पक्षे प्लक्षन्यग्रोधावित्यत्र प्लक्षश्च न्योग्रोधश्चेति विग्रहः प्राप्नोति; यावता प्लक्षश्च न्यग्रोधश्चेत्यप्युक्ते गम्यत एतत् प्लक्षोऽपि न्यग्रोधसहायः, न्यग्रोधोपि प्लक्षसहाय इति।
प्लक्षौ च न्यग्रोधौ चेति यदुक्तं तन्न घटते। युगपदधिकरणवचनता— प्रदर्शनमात्रपरमेतत्, न त्वयमेव परमार्थः।