अथेह कस्मान्न भवति— याज्ञिकश्चायं वैयाकरणश्च, कठश्चायं बह्वचश्च, औक्थिकश्चायं मीमांसकश्चेति? शेष इति वर्त्तते—
उपास्नातं स्थूलसिक्तं तूष्णींगङ्गं महाह्रदम्।
द्रोणं चेदशको गन्तुं मा त्वा ताप्तां कृताकृते ॥ ५२ ॥
नैष दोषः। अन्यद्धि कृतमन्यदकृतम्। चार्थे द्वन्द्ववचने असमासेऽपि चार्थसंप्रत्ययादनिष्टं प्राप्नोति।
अहरहर्नयमानो गामश्वं पुरुषं पशुम्।
वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥ ५३॥
इन्द्रस्त्वष्टा वरुणो वायुरादित्य (तैआ. ६.५.३; मभा. २.२.२९) इति।
नैष दोषः। इह 'चे द्वन्द्व' इतीयता सिद्धम्।