भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 671 to 680 of 1013 verses
अथेह कस्मान्न भवति— याज्ञिकश्‍चायं वैयाकरणश्‍च, कठश्‍चायं बह्वचश्‍च, औक्‍थिकश्‍चायं मीमांसकश्‍चेति? शेष इति वर्त्तते—

उपास्नातं स्थूलसिक्तं तूष्णींगङ्गं महाह्रदम्।

द्रोणं चेदशको गन्तुं मा त्वा ताप्तां कृताकृते ॥ ५२ ॥

इत्येतन्न सिद्ध्यति।

नैष दोषः। अन्यद्धि कृतमन्यदकृतम्। चार्थे द्वन्द्ववचने असमासेऽपि चार्थसंप्रत्ययादनिष्टं प्राप्नोति।

अहरहर्नयमानो गामश्‍वं पुरुषं पशुम्।

वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥ ५३॥

(मभा. २.२.२९)

इन्द्रस्त्वष्टा वरुणो वायुरादित्य (तैआ. ६.५.३; मभा. २.२.२९) इति।

नैष दोषः। इह 'चे द्वन्द्व' इतीयता सिद्धम्।

Showing 671 to 680 of 1013 verses