एवं हि क्रियमाणे एकश्च विंशतिश्च एकविंशतिः, द्वौ च दश च द्वादशेति द्विवचनं बहुवचनं च प्राप्नोति।
किं पुनरेकविंशतिरित्यादयो द्वन्द्वाः ?
बाढम्। एकाधिका विंशतिरिति पक्षे हि संख्यास्वरो न प्राप्नोति। स हि शतसहस्त्रमिति षष्ठीसमासे मा भूदिति द्वन्द्व एवाभ्यनुज्ञायते।
यद्येवमितरेतरयोगपक्षे द्विवचनम्, समाहारपक्षे च नपुंसकत्वं प्राप्नोति।
नैवम्, 'लिङ्गमशिष्यं लोकाश्रयत्वा' —दिति समाहारेऽपि नपुंसकत्वं न भविष्यति। अथ द्वादशेत्यत्रापि समाहारः कस्मान्न भवति आ दशभ्यः संख्याः संख्येय एव वर्त्तते; अत उद्भूताऽवयवसमुदायतायामितरेतरयोग एव प्राप्नोति; यथा 'अधिकरणैतावत्त्वे च (२.४.१५), दशेमे मार्द्दङ्गिकपाणविका (काशिका २.४.१५) इति ॥
तदेतत् कृत्तद्धितसमासभेदाद् विभक्तावयवं त्रिधा प्रातिपदिकमभिहितम्।
(२. अविभक्तावयवं प्रातिपदिकम्)
अथाविभक्तावयवमुच्यते। तदपि (अविभक्तावयवमपि) प्रातिपदिकं त्रिधा —
१. नामरूपम्, २. अव्ययरूपम् ३. निपातरूपं च। तत्र —