भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 691 to 700 of 1013 verses
एवं हि क्रियमाणे एकश्‍च विंशतिश्‍च एकविंशतिः, द्वौ च दश च द्वादशेति द्विवचनं बहुवचनं च प्राप्नोति।

किं पुनरेकविंशतिरित्यादयो द्वन्द्वाः ?

बाढम्। एकाधिका विंशतिरिति पक्षे हि संख्यास्वरो न प्राप्नोति। स हि शतसहस्त्रमिति षष्ठीसमासे मा भूदिति द्वन्द्व एवाभ्यनुज्ञायते।

यद्येवमितरेतरयोगपक्षे द्विवचनम्, समाहारपक्षे च नपुंसकत्वं प्राप्नोति।

नैवम्, 'लिङ्गमशिष्यं लोकाश्रयत्वा' —दिति समाहारेऽपि नपुंसकत्वं न भविष्यति। अथ द्वादशेत्यत्रापि समाहारः कस्मान्न भवति आ दशभ्यः संख्याः संख्येय एव वर्त्तते; अत उद्‌भूताऽवयवसमुदायतायामितरेतरयोग एव प्राप्नोति; यथा 'अधिकरणैतावत्त्वे च (२.४.१५), दशेमे मार्द्दङ्गिकपाणविका (काशिका २.४.१५) इति ॥

तदेतत् कृत्तद्धितसमासभेदाद् विभक्‍तावयवं त्रिधा प्रातिपदिकमभिहितम्।

(२. अविभक्‍तावयवं प्रातिपदिकम्)

अथाविभक्‍तावयवमुच्यते। तदपि (अविभक्‍तावयवमपि) प्रातिपदिकं त्रिधा —

१. नामरूपम्, २. अव्ययरूपम् ३. निपातरूपं च। तत्र —

(१. नामरूपम्)

Showing 691 to 700 of 1013 verses