भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 701 to 710 of 1013 verses
अनपेक्षितशब्दव्युत्पत्तीनि सत्त्वभूतार्थाभिधायीनि च नामानि।

तानि त्रिधा— १. एकार्थानि, २. अनेकार्थानि ३. एकानेकार्थानि चेति। तत्र— एकार्थानि यथा— वृक्षः, कुण्डम्, कुमारी, डित्थः, शुक्‍लः, शीघ्रः, इन्द्रः, शक्रः, पुरन्दरः, कोष्ठः, कुसूल इति।

अनेकार्थानि यथा— अक्षाः, माषाः, पादाः, अवयः, हरयः, गावः, भूतयः, पुण्डरीकम्, पुष्करम्, साम, ललाम इति।

एकानेकार्थानि यथा— दस्त्रौ, नासत्यौ, पुष्पवन्तौ, उभौ, रोदसी, रोदस्यौ, दाराः, वर्षाः, आपः, वनम्, पङ्क्तिः, सेना इति।

(२. अव्ययरूपम्)

प्रायेणालिङ्गसंख्याशक्तीनि अव्ययानि।

तान्यपि त्रिधा १. द्रव्यवचनानि, २. गुणवचनानि ३. संबन्धवचनानि चेति। तेषु द्रव्यवचनानि यथा— स्वः, प्रातर्, दिवा, दोषा, नक्तम्, सायम्, विहायसा, भूः, कम्, शम्, शंयो, मय इति।

गुणवचनानि यथा—उच्चैः, नीचैः, सुष्ठु, अपष्ठु, मुधा, अद्‌धा, मृषा, मिथ्या, अलम्, बलवत्, पृथक्, विष्वक् इति।

संबन्धवचनानि यथा— समया, निकषा, बहिः, अन्तः, अन्तरेण, ऋते, आरात्, युगवत्, साकम्, सार्धम्, अमा, सह इति।

(३. निपातरूपम्)

Showing 701 to 710 of 1013 verses