ननु च वर्णसमूहश्शब्द इति वक्तव्ये किमर्थमुच्यते प्रकृत्यादयश्शब्दा इति? यदाह क: पुनश्शब्द इति प्रश्ने गकारौकारविसर्जनीया इति भगवानुपवर्षः। नैवम्; अर्थावसायप्रसवनिमित्तं शब्द इष्यते। अथ गौरिति न प्रसवनिमित्तेषु जातिक्रियागुणद्रव्यादीनाम्। कः शब्दः, येनोच्चारितेन अर्थः प्रतीयते, तर्हि वर्णा एव शब्दः। उच्चारितेषु हि गकारौकारविसर्जनीयेषु गौरिति सास्नादिमानर्थः प्रतीयते, सत्यमेतत्। किन्तु वर्णाः प्रत्ययनिमित्तमेकशो वा स्युः, समुदिता वा। न तावदेकशः, द्वितीयादिवर्णोच्चारण— वैयर्थ्यप्रसङ्गात्। नापि समुदिताः उत्पत्तिपक्षे यौगपद्येनानुत्पत्तेः, उत्पन्नस्य च क्षणादूर्ध्वमनवस्थानात्। अभिव्यक्तिपक्षे क्रमेणैवाभिव्यक्तेः अभिव्यक्त्यन्तरमेव च वायुभिस्तिरोधानात् कथं समुदायः ? एकस्मृत्युपारूढानां च वर्णानां वाचकत्वे क्रमस्मरणे नियमनिमित्ताभावात्। उक्तक्रमेण च स्मरणदर्शनात् सरो, रस इति प्रतीतेरविशेषः प्राप्नोति। वक्तृभेदे चार्थप्रत्ययप्रसङ्गः। उतो न वर्णाश्शब्दः, किन्तु वर्णसमूहभिव्यङ्ग्य— स्फोटलक्षणोक्तार्थात्मा शब्द इति। स एव स्फुटत्यस्मादर्थ इत्यर्थावसायप्रसवनिमित्तमिष्यते। कथं तर्हि शब्दं कुरु, मा शब्दं कार्षीः, शब्दकार्ययं माणवक इति ध्वनिं कुर्वन्नुच्यते? अभिव्यञ्जकाभिव्यङ्ग्ययोरभेदोपचारात्। नन्वभिव्यञ्जकत्वेऽपि न वर्णानामर्थवत्ता भवितुमर्हतीति? नैवम्, वर्णसमूहात्मनो ध्वनेरेवाभिव्यञ्जकत्वात्। किं पुनर्वर्णास्सर्वथैव नार्थवन्तः ? पृथक्त्वेन तावन्नार्थवन्तः, न हि प्रतिवर्णमर्था उपपद्यन्ते।
ननु च धातुप्रातिपदिकप्रत्ययनिपातेषूपलभ्यन्ते— धातुषु इण्—एति, ऋ—इयर्तीति; प्रातिपदिकेषु अः शार्ङ्गी, उः ब्रह्मेति, उ उपस्करोति। नैते वर्णाः, अपि तु शब्दाभिव्यक्तिहेतव एकवर्णा एकध्वनिहेतवश्शब्दशब्दवाच्याः। न तूपचारतोऽपि वर्णसमूहश्शब्दः। नैवम्, अर्थाभिव्यक्तिहेतुश्शब्दः, शब्दाभिव्यक्तिहेतुर्ध्वनिः। स तु कश्चिदेकवर्णः; एकस्मिन्नेव वा समूहारोपणं सामर्थ्यातिशयाद्, यथैकापूपीति। यदि ह्येकस्मिन्नपूपे समूहो नारोप्यते, समूहाभावादेकापूप इत्येव स्यात्, न त्वेकापूपीति। कथं पुनरेकस्मिन् समूहारोपणम् ? व्यपदेशिवद्भावात्। अन्यथा 'इयाय आर' इत्यादौ प्रथमत्वैकाच्त्वयोरभावाद् द्विर्वचनाभावः। यद्येवमन्येऽपि वर्णास्समूहारोपणेनैव ध्वनयो भवितुमर्हन्ति। नार्हन्ति। कुतः? शब्दशक्ति— स्वाभाव्यात्। यथा समानमीहमानानामधीयानानां च केचिदर्थैर्युज्यन्ते केचिन्न युज्यन्ते; तथा धातुप्रातिपदिकप्रत्ययनिपाता एवैकवर्णास्समूहारोपणेनैवार्थवत्त्वाय ध्वनिव्यपदेशं लभन्ते, न पुनरन्ये। स्वाभाविकं चैतत्; न च स्वभावाः पर्यनुयोगमर्हन्ति।
इतस्तर्ह्यर्थवन्तो वर्णाः। वर्णव्यत्यये वर्णविपर्यये वर्णापाये वर्णोपजने वर्णविकारे वाऽर्थान्तरं गम्यते। वर्णव्यत्यये कूपः, सूपः, यूप इति। वर्णविपर्यये कलमः, लमकः, मलक इति। वर्णापाये मशकः, शकक इति। वर्णोपजने अक्षः, प्लक्षः, पक्ष इति। वर्णविकारे नीरं, नीलं नीडमिति। तत्र कूप इति सककारेण कश्चिदर्थो गम्यते, सूप इति सकारव्यत्ययेऽर्थान्तरं, यूप इति तु सकारस्य ककारस्य वा यकारस्य व्यत्यये कूपात् सूपाच्चार्थान्तरमिति। तेन मन्यामहे यः कूपे कूपार्थस्स ककारस्य, यस्सूपे सूपार्थस्स सकारस्य, यो यूपे यूपार्थस्स यकारस्येति। यदि तु समुदायस्यायमर्थो भवेत्, कूपादिसमुदायस्स यूपादिषु भूयस्त्वाद्भूयिष्ठः कूपार्थस्सूपे स्यात्; सूपार्थश्च कूपे, कूपार्थश्च यूपे, यूपार्थश्च सूप इति; एवं वर्णविपर्ययेऽपि क्रमोत्क्रमयोस्समुदायाविशेषात्, कमलः. मलकः, लमक इति प्रत्ययाविशेषः प्राप्नोति; न हि त्रस्तेभ्यो वटपरिच्छेदे पलाशतः खदिरतो वा न अवधारणे समुदायस्य भेदो भवति। वर्णापायेऽप्येकाद्यवयवविरहे समुदायस्यानन्यत्वात् मशकः, शकक इति नार्थान्तरं गम्येत। भिन्नकर्णपुच्छोऽपि श्वा श्वैव, नाश्वतर इति। वर्णोपजनेऽप्यक्षः, प्लक्ष इति प्रत्ययविशेषो न स्यात्। न हि सूनोद्भेदे केशोद्गमे वा युवतिव्यक्तेरन्यता युक्तिमती। एवं वर्णविकारोऽपि नीरं, नीलं नीडमिति नार्थान्तरप्रतीतिर्जायेत। न ह्यपलिते पलितवति रञ्जितकेशपाशे वा विष्णुमित्रादेः स्वरूपान्यत्वं भवति। वर्णव्यत्ययविपर्ययापायोपजनविकारेषु चार्थान्तरदर्शनान्मन्यामहे अर्थवन्तो वर्णा इति। वर्णार्थवत्वे वर्णव्यत्ययविपर्ययापायोपजनविकाराः कारणमर्थान्तरोपलब्धेर्जान्ते।
अत्रापि ब्रुमः — य एते त्वया वर्णानामर्थवत्तायां हेतव उपन्यस्ता वर्णव्यत्ययादयः, तेषु कूपस्सूपो यूप इति सङ्घातान्तराण्येवैते, अर्थान्तरे च वर्तन्ते। यदि हि वर्णव्यत्ययादिकृतमर्थान्तरगमनं स्यात्, भूयिष्ठः, कूपार्थस्सूपे स्यात्, ककारमात्रस्यैव व्यत्ययात्। सूपार्थश्च कूप इति समानं पूर्वेण। यतस्तु न किंचित् कूपादिनां सूपादिष्वतोऽन्वयाभावान्मन्यामहे सङ्घातान्तराण्येवैतान्यर्थान्तरेषु वर्तन्त इति। एतेन वर्णविपर्ययादयोऽपि व्याख्याताः। तान्यपि हि अर्थान्तरवर्तीनि सङ्घातान्तराण्येवेति। इदं खल्वपि भवता वर्णानामर्थवत्तां ब्रुवता साधीयोऽनर्थकत्वं द्योतितम्। यो हि मन्यते यः कूपे कूपार्थः स ककारस्य, ऊपशब्दस्तस्यानर्थकः स्यात्।
ननु च समुदायस्यार्थवत्त्वे समुदायैकदेशविनाशे समुदायस्य कारणभावे कार्याभाव इति विनाशो वाभ्युपेयते; छिन्नकर्णपुच्छश्वन्यायादपि विनाशो वा। किंचातः ? विनाशपक्षे समुदायाभावादर्थाभावप्रसङ्गः। पक्षान्तरेऽपि स एवार्थो, न त्वर्थान्तरम्; ततश्च कथं श्लोकः, शोकः, लोकः, ओकः, कः, इत्यर्थान्तरप्रतीतिः ? उक्तमत्र— समुदायान्तराण्ये— वैतान्यर्थान्तरेषु वर्तन्ते। भवेदेतत्, यत्रार्थान्तरं गम्यते; यत्र तु स एव सोऽर्थस्तत्र कथम्? यथा उदकं, दकं, कम् इति। इमान्यपि सङ्घातान्तराण्येवैकार्थवृत्तीनि; यथा कन्दुः कोष्ठः, कुसूल इति। क्रमात्तस्य चार्थवत्तां ब्रुवता त्वयैव दकारोकारयोरानर्थक्यमुक्तं भवति। कश्चैवमाह ? वर्णव्यत्ययविपर्ययापायोपजनविकारेष्वर्थान्तरदर्शनमेव; यतः श्यामा, रामा, वामा इति वर्णव्यत्ययो नार्थव्यत्ययः। तर्कुः, सिकता, सिंह इति वर्णविपर्ययो नार्थविपर्ययः। सन्ति, घ्नन्तीति, स्यन्ति, वर्णापायो नार्थापायः। आस्थात्, अवोचत्, सञ्चस्कारेति वर्णोपजने नार्थोपजनः। घातयति, क्षिणोति, रोपयतीति वर्णविकारो नार्थविकारः। तेन मन्यामहे वर्णव्यत्ययादिष्वप्यनर्थान्तरगमनादनर्थका एव वर्णा इति।
इतस्तर्ह्यर्थवन्तो वर्णाः; यदेषां सङ्घाता अर्थवन्तः। येषां ह्यवयवा अर्थवन्तस्त एव समुदायादर्थवन्तः; तद्यथा— एकश्चक्षुष्मान् पश्यति, तत्समुदायश्शतमपि पश्यति। एकतिलस्तैलं प्रसूते, तत्समुदायः खारीशतमपि प्रसूते। येषां पुनरवयवा नार्थवन्तस्तत्समुदाया अपि नार्थवन्तः। तद्यथा एकोऽन्धो न पश्यति, शतमप्यन्धानां न पश्यति। एका सिकता तैलं न प्रसूते, तत्समुदायः खारीशतमपि न प्रसूत इति। नैवम्, अतदर्थेनाप्यवयवेनावय— विनोऽर्थसद्भावो दृश्यते। यथा एक ऊर्णातन्तुः शीतत्राणासमर्थः, तत्समुदायश्च कम्बलः समर्थः; एकस्तण्डुलः क्षुत्प्रतिघातेऽसमर्थः, तत्समुदायश्च १वर्धितकं समर्थमिति। नैवं भवति। तत्र प्रत्येकमपि कियत्यप्यर्थमात्रा; इमे पुनर्वर्णा अत्यन्तायैवानर्थकाः। यथा तर्हि रथाङ्गानि विहितानि तानि प्रत्येकं न२ व्रजिक्रियासमर्थानि, तत्समुदायश्च रथस्समर्थ इति। एवमेषां वर्णानां समुदायाश्शब्दाभिव्यक्तिहेतवोऽर्थवन्तः, अवयवास्त्वनर्थका इति।
अतः स्थितमेतत् प्रकृतिप्रत्ययादिवर्णजनितध्वनिसमूहोऽभिव्यङ्ग्यस्फोटलक्षणो—ऽर्थात्माऽर्थावसायप्रसवनिमित्तं शब्दः। तद्विशेषाश्च प्रकृत्यादिस्फोटः पदस्फोटो वाक्यस्फोट इति।
योऽभूदित्यादिकश्शब्दो भवतीत्यादिकश्च यः।
भूरस्तीत्यादिको यश्च स स्फोटं नातिवर्तते ॥ १३८ ॥
प्रतिपाद्यो निवर्त्त्यश्च प्रतिपादक एव च।