भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 671 to 680 of 756 verses
पुष्ये पायसमश्नीयान्मघासु पललोदनम्॥ ११५॥

भावनैमित्तिकं यथा— दर्शने प्रसीदति, विरहे विषीदति, अर्थलाभे हृष्यति, अरिविनाशे तुष्यति।

वस्तुनैमित्तिकं यथा— आतपे क्लाम्यति, छायायामाश्वसिति, दोषेषूद्विजते, गुणेषु रज्यत इति।

कर्मनैमित्तिकं यथा— इष्‍टी यज्ञे, परिगणिती याज्ञिक्ये, आम्नाती छन्दसि, अधीती व्याकरणे।

कर्मयोगनैमित्तिकं यथा—

चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्।

वालेषु चमरीं हन्ति सीम्नि पुष्कलको हतः॥ ११६॥

(मभा. ३.२.३६)

ननु च निमित्तहेतोः कारकत्वात् कारकस्य च प्रयोजकपरतन्त्रत्वादिह कथं कारकत्वमिति।

उच्यते, द्विविधः कारकहेतुः प्रवृत्तप्रेरकः अप्रवृत्तप्रेरकश्‍च। तत्राद्यो णिज्विषयः, इतरस्तु विध्याद्यात्मको निमित्तात्मकश्‍च। तयोश्‍च प्रथमो लिङ्लोट्तव्यादिवाच्यः।

Showing 671 to 680 of 756 verses