पुष्ये पायसमश्नीयान्मघासु पललोदनम्॥ ११५॥
भावनैमित्तिकं यथा— दर्शने प्रसीदति, विरहे विषीदति, अर्थलाभे हृष्यति, अरिविनाशे तुष्यति।
वस्तुनैमित्तिकं यथा— आतपे क्लाम्यति, छायायामाश्वसिति, दोषेषूद्विजते, गुणेषु रज्यत इति।
कर्मनैमित्तिकं यथा— इष्टी यज्ञे, परिगणिती याज्ञिक्ये, आम्नाती छन्दसि, अधीती व्याकरणे।
चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्।
वालेषु चमरीं हन्ति सीम्नि पुष्कलको हतः॥ ११६॥
ननु च निमित्तहेतोः कारकत्वात् कारकस्य च प्रयोजकपरतन्त्रत्वादिह कथं कारकत्वमिति।
उच्यते, द्विविधः कारकहेतुः प्रवृत्तप्रेरकः अप्रवृत्तप्रेरकश्च। तत्राद्यो णिज्विषयः, इतरस्तु विध्याद्यात्मको निमित्तात्मकश्च। तयोश्च प्रथमो लिङ्लोट्तव्यादिवाच्यः।