भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 691 to 700 of 756 verses
कारकान्तरेऽपि यथा स्यात्। तेन उपार्जुनं योद्धार इत्यपादानेऽपि पञ्चमी बाधते। अत एव 'पञ्चम्यपाङ्परि' (२.३.१०) इत्यपादानेऽप्यारभ्यत इति। एतेनाधीती व्याकरणे, एधेभ्यो व्रजतीत्यादयः कारकविभक्तिविषये, गोषु स्वामी, प्राग्ग्रामादित्यादयः संबन्धविभक्तिविषये कारकविभक्तिसमावेशात् प्रकाशिता भवन्ति।

ननु च शक्तिस्साधनं, तद्‍वशेन द्रव्यस्य क्रियासु योगित्वात्। किंच द्रव्यमपि साधनम्, कल्पयित्वा साधनभेदा(न्), न पुनराश्रयितव्याः शक्तयः। संन्यस्ता वेति (सन्त्यक्‍तैवेति) शक्तिः।

सत्यम्, (शक्‍ति—)भेदास्साधनमिति कल्पितम्। न च तामामधिकरणं द्रव्यमेवेति द्रव्यानपेक्षसाधनत्वम्, द्रव्यस्यापि स्वकर्मायत्तजन्मनस्तदपेक्षया तुल्यदोषत्वात्; शक्तीनामेव च साधनत्वे प्रत्ययाभिहितासु शक्तिषु द्रव्यवचनानामनुप्रयोगो युज्यते 'वर्धते देवदत्तः, परिगतमर्थतत्त्वम्' इति। द्रव्ये तु साधने तस्याभिहितत्वादनुप्रयोगो न प्राप्नोति। शक्तीनामेव च साधनत्वे 'अद्य भुक्त्वा देवदत्तो द्व‍यहे द्व‍यहाद वा भोक्ता' इति शक्तिमध्यवर्तिनि काले सप्‍तमी वा कारकमध्ये (२.३.७) लभ्यते। द्रव्यस्य देवदत्तादेरेकत्वान्मध्ये द्व‍यहादिकालो न संभवति। शक्तीनामेव च साधनत्वे 'प्रासादे अस्ति' इति घञादिविषयमधिकरणमभिहितं, न त्वासिविषयमित्यनभिहित— विषयलक्षणा सप्‍तमी लभ्यते; द्रव्ये सत्यभिहितत्वाद् इति। शक्तीनामेव साधनत्वे योऽयमेकद्रव्याधिकरणः साधनभेदः श्रूयते, स उपपन्नो भवति, 'वेगेन पतितो रूग्णः', 'स्फुरतो ध्वनिरुदित' इति द्रव्ये तु तस्यैकत्वान्न संभवति। क्रियाभेदनिबन्धनो भविष्यतीति चेत् कर्मादिनियमो बाध्येत; प्रतीतिभेदश्‍च न स्यात्।

तन्न, क्रियाया अर्थान्तरत्वात् न ह्यन्यस्य भेदः, अन्यद् भिद्यते। अपि च द्रव्यस्यैकत्वे कुतः क्रियाभेदकारणभेदः, कार्यस्याभेदात्। शक्तीनामेव च साधनत्वे प्रातिपदिकाद् विभक्तयो युज्यन्ते। द्रव्यस्य तु प्रातिपदिकेनाभिहितत्वाद् अनर्थका नोत्पद्येरन्।

वचनात् स्वार्थिका इति चेत्, कर्मादिः नियमो बाध्येत, प्रतीतिभेदश्‍च न स्यात् वृक्षे वृक्षेणेति। अस्ति चासावभिन्नेऽपि प्रातिपदिकार्थे तस्मादर्थान्तरं प्रातिपदिकार्थाद् विभक्त‍यर्थः कारकमिति।

नैवम्; शक्त‍यपेक्षा तस्य साधनत्वं विहन्ति; शक्तेरपि द्रव्यापेक्षत्वे तुल्यदोषत्वात्। न चान्यापेक्षा कारकाणां कारकत्वं विरुणद्धि; कार्यत एवान्वयव्यतिरेकाभ्यां कारकत्वावगतेः। कार्यं हि कस्यचित् संभवेऽप्यनवाप्‍तसत्ताकः पुनरवाप्नुवन् सत्तान्तरस्य भाव एव परिगृहीतातिशयान्तरस्य कारणतां सूचयति; न त्वकारणतामेव। विशेषशालिनि तस्मिन्नेव पुनर्भावात् तदभावे चाभावात्। न खलु कुसूलादौ बीजसमवधानेऽप्यलब्धोपलब्धेरङ्कुरस्य क्षित्यादिसहकारिग्रामबीजस्य समवधानसदृश्यमानमूर्त्तेरन्वयकार्यं न प्रतीयते, अपि तु तदेव बीजं समवहित— क्षित्यादिसहकारिप्रत्ययमस्य जनकमितरथेति गम्यते।

द्रव्यस्यैकत्वात् साधनभेदः कथमिति चेत् एकद्रव्याधिकरणाश्शक्तयो भिन्नरूपाः स्वरूपभेदेनाश्रयभेदमुपदधत्योऽभेदमधिकरणस्य दर्शयन्ति। एकस्यापि देवदत्तादेः शिल्पभेदात् तक्षायस्कारादिससमाख्या अर्थभेदनिबन्धनाः संदृश्यन्ते। शक्त‍यस्तु भिन्नरूपा इति शक्तिसाधनिकोऽपि मन्यते। तासां च वशेन तद्‍द्रव्यमाहितभेदं द्रव्यसाधनिकस्यापि साधनभेदव्यवस्थां रचयति इति।

यत्तूक्तम् द्रव्ये साधने प्रत्ययाभिहितत्वात् तदनुप्रयोगो न स्यात्, तत्र सामान्यमभिहितं, विशेषो न प्रयोक्ष्यते इति;

न (तद्) वक्तव्यम; साधने विधीयमानप्रत्ययः कथं साधनं सामान्यम— भिदधीत ? सामान्यस्य विशेषाश्रयत्वाद् विशेष एव वा प्रत्ययेनैकरूपत्वादनु— प्रयोगापेक्षिणाऽभिधीयते गोशब्देनैव प्रकरणाद्यपेक्षिणा गवादिरर्थ इति।

ननु चान्यापेक्षया विशेषमभिदधतः सामान्यसाधनशक्तीनां विशेषे शब्दस्या— भिधानशक्तिप्रतिघात इति।

Showing 691 to 700 of 756 verses