कारकान्तरेऽपि यथा स्यात्। तेन उपार्जुनं योद्धार इत्यपादानेऽपि पञ्चमी बाधते। अत एव 'पञ्चम्यपाङ्परि' (२.३.१०) इत्यपादानेऽप्यारभ्यत इति। एतेनाधीती व्याकरणे, एधेभ्यो व्रजतीत्यादयः कारकविभक्तिविषये, गोषु स्वामी, प्राग्ग्रामादित्यादयः संबन्धविभक्तिविषये कारकविभक्तिसमावेशात् प्रकाशिता भवन्ति।
ननु च शक्तिस्साधनं, तद्वशेन द्रव्यस्य क्रियासु योगित्वात्। किंच द्रव्यमपि साधनम्, कल्पयित्वा साधनभेदा(न्), न पुनराश्रयितव्याः शक्तयः। संन्यस्ता वेति (सन्त्यक्तैवेति) शक्तिः।
सत्यम्, (शक्ति—)भेदास्साधनमिति कल्पितम्। न च तामामधिकरणं द्रव्यमेवेति द्रव्यानपेक्षसाधनत्वम्, द्रव्यस्यापि स्वकर्मायत्तजन्मनस्तदपेक्षया तुल्यदोषत्वात्; शक्तीनामेव च साधनत्वे प्रत्ययाभिहितासु शक्तिषु द्रव्यवचनानामनुप्रयोगो युज्यते 'वर्धते देवदत्तः, परिगतमर्थतत्त्वम्' इति। द्रव्ये तु साधने तस्याभिहितत्वादनुप्रयोगो न प्राप्नोति। शक्तीनामेव च साधनत्वे 'अद्य भुक्त्वा देवदत्तो द्वयहे द्वयहाद वा भोक्ता' इति शक्तिमध्यवर्तिनि काले सप्तमी वा कारकमध्ये (२.३.७) लभ्यते। द्रव्यस्य देवदत्तादेरेकत्वान्मध्ये द्वयहादिकालो न संभवति। शक्तीनामेव च साधनत्वे 'प्रासादे अस्ति' इति घञादिविषयमधिकरणमभिहितं, न त्वासिविषयमित्यनभिहित— विषयलक्षणा सप्तमी लभ्यते; द्रव्ये सत्यभिहितत्वाद् इति। शक्तीनामेव साधनत्वे योऽयमेकद्रव्याधिकरणः साधनभेदः श्रूयते, स उपपन्नो भवति, 'वेगेन पतितो रूग्णः', 'स्फुरतो ध्वनिरुदित' इति द्रव्ये तु तस्यैकत्वान्न संभवति। क्रियाभेदनिबन्धनो भविष्यतीति चेत् कर्मादिनियमो बाध्येत; प्रतीतिभेदश्च न स्यात्।
तन्न, क्रियाया अर्थान्तरत्वात् न ह्यन्यस्य भेदः, अन्यद् भिद्यते। अपि च द्रव्यस्यैकत्वे कुतः क्रियाभेदकारणभेदः, कार्यस्याभेदात्। शक्तीनामेव च साधनत्वे प्रातिपदिकाद् विभक्तयो युज्यन्ते। द्रव्यस्य तु प्रातिपदिकेनाभिहितत्वाद् अनर्थका नोत्पद्येरन्।
वचनात् स्वार्थिका इति चेत्, कर्मादिः नियमो बाध्येत, प्रतीतिभेदश्च न स्यात् वृक्षे वृक्षेणेति। अस्ति चासावभिन्नेऽपि प्रातिपदिकार्थे तस्मादर्थान्तरं प्रातिपदिकार्थाद् विभक्तयर्थः कारकमिति।
नैवम्; शक्तयपेक्षा तस्य साधनत्वं विहन्ति; शक्तेरपि द्रव्यापेक्षत्वे तुल्यदोषत्वात्। न चान्यापेक्षा कारकाणां कारकत्वं विरुणद्धि; कार्यत एवान्वयव्यतिरेकाभ्यां कारकत्वावगतेः। कार्यं हि कस्यचित् संभवेऽप्यनवाप्तसत्ताकः पुनरवाप्नुवन् सत्तान्तरस्य भाव एव परिगृहीतातिशयान्तरस्य कारणतां सूचयति; न त्वकारणतामेव। विशेषशालिनि तस्मिन्नेव पुनर्भावात् तदभावे चाभावात्। न खलु कुसूलादौ बीजसमवधानेऽप्यलब्धोपलब्धेरङ्कुरस्य क्षित्यादिसहकारिग्रामबीजस्य समवधानसदृश्यमानमूर्त्तेरन्वयकार्यं न प्रतीयते, अपि तु तदेव बीजं समवहित— क्षित्यादिसहकारिप्रत्ययमस्य जनकमितरथेति गम्यते।
द्रव्यस्यैकत्वात् साधनभेदः कथमिति चेत् एकद्रव्याधिकरणाश्शक्तयो भिन्नरूपाः स्वरूपभेदेनाश्रयभेदमुपदधत्योऽभेदमधिकरणस्य दर्शयन्ति। एकस्यापि देवदत्तादेः शिल्पभेदात् तक्षायस्कारादिससमाख्या अर्थभेदनिबन्धनाः संदृश्यन्ते। शक्तयस्तु भिन्नरूपा इति शक्तिसाधनिकोऽपि मन्यते। तासां च वशेन तद्द्रव्यमाहितभेदं द्रव्यसाधनिकस्यापि साधनभेदव्यवस्थां रचयति इति।
यत्तूक्तम् द्रव्ये साधने प्रत्ययाभिहितत्वात् तदनुप्रयोगो न स्यात्, तत्र सामान्यमभिहितं, विशेषो न प्रयोक्ष्यते इति;
न (तद्) वक्तव्यम; साधने विधीयमानप्रत्ययः कथं साधनं सामान्यम— भिदधीत ? सामान्यस्य विशेषाश्रयत्वाद् विशेष एव वा प्रत्ययेनैकरूपत्वादनु— प्रयोगापेक्षिणाऽभिधीयते गोशब्देनैव प्रकरणाद्यपेक्षिणा गवादिरर्थ इति।
ननु चान्यापेक्षया विशेषमभिदधतः सामान्यसाधनशक्तीनां विशेषे शब्दस्या— भिधानशक्तिप्रतिघात इति।