न च पर्यायेणैव दर्शनादयः स्युः, यौगपद्येनापि भावात्। तस्मात् सामर्थ्या— धारनिबन्धनो वचनभेदो न शक्त्याश्रय इति। अत एव स्वातन्त्र्याद् विभक्तयाऽपि शक्तिर्नाभिधीयते। यदि हि स्वतन्त्रां शक्तिं विभक्तिरभिदध्यात् तदा तद्गतामेव संख्यां विभक्तिरभिदधीत, समानशब्दोपादानात्; न चैतदस्ति। तस्माद् यस्य संख्यां विभक्तिरुपादत्ते तदेव शक्तिमत् कारकमिति।
यत्तु शक्तावेव विभक्तयर्थे वर्तमानमव्ययं समस्यते इत्युच्यते तच्छक्तिमत्यपि कारके अव्ययानामपि सत्त्ववचनात् तन्मात्राभिधानमिति कथं सत्त्वभूतं द्रव्यमसत्त्वार्थेनाव्ययेनाभिधीयेत ? यस्तु प्रासाद आस्त इत्यनभिहितलक्षणा सप्तमी न लक्ष्यत इति तत्र यथा घञादिविषये शक्तिमद्द्रव्यमभिहितं, न त्वासिविषयशक्तिमदिति, तत्र केन सप्तमी वार्यते ? यदि च घञादयः शक्तिमभिदधीरन् तदा शक्तेरसिशब्दाभिहितायाः शक्तयन्तरायोगादास्तां, सप्तमीद्वितीयादयोऽपि नोत्पद्येरन्।
कथं चैवमाह अधिकरणादिवचानि प्रासादादयः।
ते हि संज्ञाशब्दा वृक्षादिवदेव केषुचिदर्थविशेषेषु रूढाः केवलममीषां धर्मनियमा वा यथाकथञ्चिदुत्पत्तिं गमयन्ति। एतेन च 'वेगेन पतत' इत्यादौ येयमेकद्रव्याधिकरणा साधनभेदश्रुतिः सापि प्रतिविहितैव भवति।
न चैतावद् वाच्यं, द्रव्ये कारके प्रातिपदिकादयो नोत्पद्येरन्। द्रव्यं हि विभक्तिलिङ्गशक्तिसंख्यास्वर्थपरिमाणवत् सामान्यमात्रया प्रातिपदिकमात्रेणाभिधीयते, शक्तिसंख्यालिङ्गवच्च विभक्तिवचनसंस्कारो लभ्यत इत्यतः स्थितमेतच्छक्तिमद् द्रव्यं कारकमिति।
आख्यातप्रत्ययाभिधेयः कारकविशेषः पुरुषः।
स त्रिधा— प्रथमो, मध्यम उत्तमश्च। तत्र परस्मैपदात्मनेपदयोः प्रथमत्रिका— भिधेयः प्रथमः, मध्यमत्रिकाभिधेयो मध्यमः, अन्त्यत्रिकाभिधेय उत्तमः। तत्र च—
प्रत्यु/त्यक्तापरभावश्चेदुपाधिः/धी कर्तृकर्मणोः।
तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ॥ ११८॥