तदाह— युष्मदि मध्यमः, अस्मद्युत्तमः, शेषे प्रथम (१.४.१०५, १०७, १०८) इति। तत्र कर्तरि पुरुषत्रयप्रयोगे यथा—(कुसं. ५.६५)
अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे।
अमङ्गलाभ्यासरतिं विचिन्त्य तं तवाभ्यनुज्ञा न तु कर्तुमुत्सहे॥ ११९॥
यदि त्वं मन्यसे तेन त्वया स यदि तोष्यते।
तत् किमस्थानकोपेन दूति! दह्यामहे वयम्॥ १२०॥
अथैषां क्वचित् प्रथम एव यथा— भावप्रयोगेषु युवाभ्यामास्यते, अस्माभिर्गण्यते इति क्वचिन्मध्यम एव यथा क्रियासमाभिहारे हिस्वाभ्यां समुच्चयेषु लुनीहि लुनीहित्येवायं लुनाति, अलावीत् लविष्यति वा, अधीष्वाधीष्वेत्येवमधीयाते, अध्यैषातां अधीष्येते वा, राष्ट्रमट, मठमट खदूरमटेत्येवावामटावः, अटिष्व अटिष्यावो वा, छन्दोऽधीष्व व्याकरणमधीष्व, निरुक्तमधीष्वेत्येव वयमधीमहे, अध्यगीष्महि अध्येष्यामहे वा, सक्तून् पिब, धानाः, खादत, ओदनं भुङ्क्ष्वं इत्येवं यूयमभ्यवहरथ अभ्यवाहार्ष्ट अभ्यवहरिष्यथ वा। क्वचिदुत्तम एव यथा प्रहासे मन्यते एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्ते पिता; एहि मन्ये ओदनं भोक्ष्यसे, न हि भोक्ष्यसे, भुक्तस्सोऽतिथिभिरिति। मन्यतेस्तु उत्तमविषयेऽपि मध्यम एव;तत्र ह्ययमर्थःएहि मन्यसे रथेन यास्यामि, एहि मन्यस ओदनं भोक्ष्यथ इति। युगपद्वचने पुनः पुरुषाणां परो भवति यथा स च त्वं च पचथः, त्वं चाहं च पचावः, स च त्वं चाहं चं पचाम इति। युगपदवचनता चैकशेषस्य द्वन्द्वसमानार्थत्वाच्च अर्थविषयैव गृह्यते; न चार्थविषया (वाप.—३) तेन
अहं वा कुम्भकर्णो वा त्वं वा राक्षसपुङ्गव।
इन्द्नजिद्वा निकुम्भो वा भरेयुर्भारमीदृशम्॥ १२१॥