सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम्॥ १२३॥
क्वचित्तु प्रकृतेः; यथा सघ्ङीभवन्ति ब्राह्मणाः, महद्भूतश्चन्द्रमा (मभा. ६.३.४६) इति। अत्र यदि प्रकृतेः कर्तृत्वं न विवक्ष्यते तदा विकृतेस्सङ्घस्यैव कर्तृत्वाद्भवन्तीति बहुवचनं न प्राप्नोति। महद्भूतः इत्यत्र महच्छब्दस्य च मुख्यार्थत्वाद् 'आन्महतस्समानाधिकरणजातीययोः' (६.३.४६) इत्यात्वं स्यात्। प्रकृतिर्हि काचिदुपचरितविकाररूपा, यथा इन्द्रः स्थूणा, उपेन्द्रो ग्राव इति; काचित् परिणामिनी यथा दुग्धं दधि भवति, हेम कुण्डलीभवति। तत्र विपरिणामिनीषु प्रकृतिषु सङ्घमहत्त्वादिभिर्मुख्यैरपि योगे पूर्वस्या अवस्थायाः प्रच्युतस्योत्तरामवस्थां प्राप्तस्य पूर्वोत्तरयोरवस्थयोराश्रितयोसव्यापारत्वात् पूर्वस्यामवस्थायां कर्तृत्वविवक्षायाः सङ्घमहदादेर्विकारशब्दस्य प्रकृत्युपग्राहिणो गौणत्वं विज्ञायते। तदुक्तम्— (वाप.२.२८०)
महत्त्वं सङ्घभावं च प्रकृतिः प्रतिपद्यते।
भेदे नापेक्षिता सा तु गौणत्वस्य प्रसाधिका॥ १२४॥
यद्येवम्, अतिमहती महती संपन्ना महद्भूता ब्राह्मणीति पुंवद्भावो न प्राप्नोति। अर्थाश्रयः एतदेवं भवति (मभा. ६.३.४६); शब्दाश्रयश्च पुंवद्भावः; 'गोतो णित्' (७.१.९०), 'औतोंशसोः' इति (६.२.९३) वाहीके वर्तमानस्य गोशब्दस्य गौस्तिष्ठति गामनयेति वृद्धिरात्वं च भवति (मभा. ६.३.४६)॥
तेऽमी क्रिया च कालश्च कारकं पुरुषस्तथा।
उक्ताः पदार्थाश्चत्वारस्स्वैस्स्वैर्भेदैस्समन्विताः॥ १२५॥
द्रव्यात्मा चापि कालो यः प्रसङ्गात् सोऽपि कीर्तितः।