भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 741 to 750 of 756 verses
सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम्॥ १२३॥

(वाप.३.७.११५)

क्‍वचित्तु प्रकृतेः; यथा सघ्ङीभवन्ति ब्राह्मणाः, महद्भूतश्‍चन्द्रमा (मभा. ६.३.४६) इति। अत्र यदि प्रकृतेः कर्तृत्वं न विवक्ष्यते तदा विकृतेस्सङ्घस्यैव कर्तृत्वाद्‌भवन्तीति बहुवचनं न प्राप्‍नोति। महद्‌भूतः इत्यत्र महच्छब्दस्य च मुख्यार्थत्वाद् 'आन्महतस्समानाधिकरणजातीययोः' (६.३.४६) इत्यात्वं स्यात्। प्रकृतिर्हि काचिदुपचरितविकाररूपा, यथा इन्द्रः स्थूणा, उपेन्द्रो ग्राव इति; काचित् परिणामिनी यथा दुग्धं दधि भवति, हेम कुण्डलीभवति। तत्र विपरिणामिनीषु प्रकृतिषु सङ्घमहत्त्वादिभिर्मुख्यैरपि योगे पूर्वस्या अवस्थायाः प्रच्युतस्योत्तरामवस्थां प्राप्‍तस्य पूर्वोत्तरयोरवस्थयोराश्रितयोसव्यापारत्वात् पूर्वस्यामवस्थायां कर्तृत्वविवक्षायाः सङ्घमहदादेर्विकारशब्दस्य प्रकृत्युपग्राहिणो गौणत्वं विज्ञायते। तदुक्तम्— (वाप.२.२८०)

महत्त्वं सङ्घभावं च प्रकृतिः प्रतिपद्यते।

भेदे नापेक्षिता सा तु गौणत्वस्य प्रसाधिका॥ १२४॥

इति।

यद्येवम्, अतिमहती महती संपन्ना महद्भूता ब्राह्मणीति पुंवद्भावो न प्राप्‍नोति। अर्थाश्रयः एतदेवं भवति (मभा. ६.३.४६); शब्दाश्रयश्‍च पुंवद्भावः; 'गोतो णित्' (७.१.९०), 'औतोंशसोः' इति (६.२.९३) वाहीके वर्तमानस्य गोशब्दस्य गौस्तिष्ठति गामनयेति वृद्धिरात्वं च भवति (मभा. ६.३.४६)॥

तेऽमी क्रिया च कालश्‍च कारकं पुरुषस्तथा।

उक्ताः पदार्थाश्‍चत्वारस्स्वैस्स्वैर्भेदैस्समन्विताः॥ १२५॥

द्रव्यात्मा चापि कालो यः प्रसङ्गात् सोऽपि कीर्तितः।

Showing 741 to 750 of 756 verses