शेषे प्रथम एव भवति, यथा त्वमहमन्यो वा गच्छत्विति।
एवं तर्हि चार्थे युगपद्वचनतायामभावात् वहेयुरिति बहुवचनं न प्राप्नोति।
नैवम्; वार्थेषु क्वचिद्युगपद्वचनता दृश्यते, द्वौ वा त्रयो वा द्वित्रा इति। आह च महाभाष्यकारः, 'द्वौ वेत्युक्ते त्रयो वेति गम्यते, त्रयो वेत्युक्ते द्वौ वेति गम्यते। सैषा पञ्चधिष्ठाना वाक्। तत्र युक्तं बहुवचनम्। सामान्याश्रयं वा बहुवचनम्, यथा कति भवतः पुत्राः कति भवतो भार्या इति।
अत्वं संपद्यते यस्मिन्न तस्मिन् युष्मदाश्रया।
प्रवृत्तिः पुरुषस्यास्ति प्रकृतेस्सा विधीयते॥ १२२॥
यथा अत्वं त्वं संपद्यते त्वद्भवति, अयूयं यूयं संपद्यते युष्मद्भवन्तीति। उपलक्षणं चैतत्। प्रकृतिविकृत्याश्रयपुरुषसंप्रधारणायां प्रकृत्याश्रय एव पुरुषो भवति, न विकृत्याश्रय इति। तेन अनहमहं संपद्यते मद्भवति, अवयं वयं संपद्यन्ते अस्मद्भवन्ति, असस्स संपद्यते तद्भवति, अनहमहं संपद्यसे मद्भवसीत्याद्यपि सिद्धं भवति। का पुनरत्रोपपत्तिः ? अभूततद्भावे प्रकृतिविकृत्योः कर्तृत्वविवक्षायां कामचारः। तथा हि—क्वचिद्विकृतेः कर्तृत्वं विवक्ष्यते, यथा मूत्राय संपद्यते यवागूः, यथा च सुवर्णपिण्डः पुनरपरया आकृत्या संवृत्तः खदिराङ्गारसवर्णे कुण्डले भवत इति।
क्लृपि संपद्यमाने या चतुर्थी सा विकारतः।