भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 731 to 740 of 841 verses
एकदेशेन वृत्तौ तु गोत्वजातिर्न कुत्रचित्।

समग्राऽस्तीति गोबुद्धिः प्रतिपिण्डं कथं भवेत्॥ १२२॥

(न्यायम.)

न चास्य निरवयवत्वादेकदेशा विद्यन्ते। न चैकपिण्डे समाप्‍त्या वर्तमाना पिण्डान्तरेऽपि समाप्‍त्यैव वर्तितुमर्हति। समाप्‍तस्य न पुनरुत्पत्तिं विना समाप्‍त्यन्तरानुपपत्तेः। न च तथाभूता काचिद् वृत्तिरुपलभ्यते। न च समवायात्मिका वृत्तिः। स ह्ययुतसिद्घानां भवति। अयुतसिद्धिस्सम्बन्धश्‍चेति विप्रतिषिद्धम्। द्रव्यगुणयोः अपृथक्‍सिद्धयोरपि सम्बन्धदर्शनान्नैवमिति चेन्न। तत्रापि गुणव्यतिरिक्तस्य गुणिनो भेदेनासिद्धेः। अवयवावयविनोरपि पृथक्‍सिद्धेरभावान्न सम्बन्धः। नापि रूपरूपिलक्षणस्सम्बन्धो भविष्यतीति वक्तव्यम्, रूपार्थस्य निरूपयितुमशक्‍यत्वात्। किमयं रूपशब्दश्शुक्‍लादिगुणवचनः स्वभाववचनो वा। शुक्‍लादिवचनत्वे नीरूपाणां पवनमनः— प्रभृतीनां द्रव्याणां सामान्यशून्यता स्यात्। आकारवचनत्वेऽप्यवयवसन्निवेशरहितानां तेषामेव सामान्यवत्ता न प्राप्‍नोति। स्वभाववचनत्वे तु जातिजातिमतोरव्यतिरेक एव भवेत्।

अवभाति हि भेदेन स्वभावो न स्वभाविनः।

शब्दातिरिक्ततैवेयं न तु वस्त्वतिरिक्तता॥ १२३॥

अपि चेयं जातिः—

सर्वसर्वगतापि (ता वा) स्यात् पिण्डसर्वगतापि वा।

सर्वसर्वगतत्वेऽस्याः कर्कादावपि गोमतिः॥ १२४॥

अश्वधीश्शाबलेयादावुष्ट्रबुद्धिर्गजादिषु।

Showing 731 to 740 of 841 verses