नैवं, शक्तिर्विशेष एवोच्यते। धातोः क्रियाविशेषवचनादेव प्रत्ययोत्पत्तेः। स च कार्यविशेषाश्रयभेदाभ्यामवधार्यते। तत्र कार्यभेदो धातुनैवाभिहितः; आश्रयभेदः पुनरप्रतीतः पदान्तरेणैवोच्यते चैत्रो मैत्र इति। तथाप्यन्यापेक्षा तुल्यैव। न चाश्रिताश्रययोस्सामाना— धिकरण्यम्। अतश्चैत्रो वर्तते इति न स्यात्, अपि तु चैत्रो वर्धत इति। अपि च धातुः क्रियाविशेषवचन एवेति कुत एतद् वर्धते, यावदनेन वर्धितव्यम्। इदं कर्म कुर्याः, 'नागरकवृत्तं' वर्तेत, समान् पोषान् अपुष्यत्' इत्यादौ सामान्यस्य विशेषः प्रतीयते।
यत्तु देवदत्तादेर्द्रव्यस्यैकत्वान्मध्ये द्व्यहादिः कालो न सम्भवतीत्युच्यते, तदपि न सम्यक्; आश्रितोपाधिनिमित्तस्य भेदस्योपपत्तेः। तथा हि वक्तारो भवन्ति, परुद्भवान्, पटुरासीत्, पटुतश्चैषमः, अद्यान्य एवासि संपन्न (मभा. ५.३.५७) इति। तदेवं सामर्थ्यभेदादाहितविभागमधिकरणं भागशोऽवच्छिद्य साधनभेदः प्रकल्प्यमानो मध्यमप्युपकल्पयति।
न च शक्तिपक्षेऽपि साक्षान्मध्यसम्भवः। पूर्वशक्तिकाले परस्याः, परकाले च पूर्वस्या अभावात्।
अथवा द्व्यहे भोक्तेत्यवधिसप्तमी द्व्यहाद् वा भोक्तेत्यवधेरेव पञ्चमी, स चान्त्यमोजनेनावच्छिद्यते। यदि तु मध्यसिद्धये द्रव्यभेदः शक्तिभेदश्च कल्प्यते, तदा कर्तृभेदाद् भुक्त्वेति क्त्वाप्रत्ययः 'समानकर्तृकयोः पूर्वकाले' (३.४.२१) इति न स्यात्।
उपचरिताभेदाश्रयस्स इति चेद्, मध्यं न सिध्यति। अथैकत्वाद् भुक्तिक्रियायां कारकैकत्वकालभेदाश्रयश्च कारकभेदः, स्नात्वा व्रजतीति न स्यात्; स्नानव्रजिक्रिययोश्च भेदात् तन्निमित्तयोः कर्तृशक्त्योरपि भेदे समानकर्तृकत्वाभावात्। ननु च यस्यापि द्रव्यमाश्रितशक्तिभेदसंपादितनानात्वं साधनं तस्याप्येष दोषः। अ(ना)पि च भिन्नाधारवर्तितया सामर्थ्ययोरभेदमाधेयशक्तिवादिना शक्यते वक्तुं समानः कर्तेति। यस्य तु शक्तिभेदोपनीतस्तदाधारस्य भेदः, तस्य निबन्धनमुपचरितमप्येकत्वं न विद्यते, अपेक्षणीयश्चाधारभेद, क्रियाभेदस्य पौर्वापर्यवतः अपेक्षितत्वात्।
अत्रोच्यते—द्रव्यस्यैकत्वेन शक्त्योरेकत्वमुच्यते। शक्तिनानात्वेन च द्रव्यस्यापि नानात्वं करिष्यते द्रव्यस्य तु पारमार्थिकमप्येकत्वं न मृष्यत इत्यहो कामचारः। अपि तु शक्तौ साधने पशौ कर्तरि हस्तिकवाटयोः कर्त्रोः इति (पमः न्यास. ३.२.५४) कथं शक्तिरेकाधारावच्छिन्ना प्रतिपद्यते ? प्रतिपद्यताम्, सामानाधिकरण्यं पृच्छामि; पशौ द्रव्ये यः कर्तेति चेत्, उपमानात् कर्तुरिति न प्राप्नोति।
अथ शक्तिभेदोपकरणाः कर्त्रादिश्रुतयः तदधिकरणं कार्ययोगितयाऽवगमयन्ति, शुल्कादय इव रूपविशेषाश्रयमिति सामानाधिकरण्योपपत्तेः। जितं तर्हि भवता, सिद्धश्शक्तिसाधनभेदः, कर्त्रादिश्रुतिभिराश्रयस्य शक्तिमतोऽभिधानात्।
किञ्च शक्तिकारकपक्षे कर्मण एकत्वे, कर्मणो द्वित्वे, कर्मणो बहुत्वे विभक्तिवचनादि न स्यात्; न हि गुणस्य संख्या संबन्धोऽपि; द्रव्ये तु युज्यते। यतः कर्मादिशब्दाः शक्तिमद्द्रव्यमविरुद्धसंख्यासम्बन्धं बोधयन्ति।
ननु गुणस्यापि संख्यासम्बन्धो दृश्यते पञ्च कर्माणि, चत्वारोऽभावा— स्त्रयस्संयोगा द्वे सामान्ये एकस्समवाय इति। न चायमुपचारः प्रत्ययाविशेषात् एवं शक्तयोऽपि कार्यभेदभिन्नास्सङ्ख्याभेदमनुभविष्यन्ति।
सत्यम्,अस्ति शक्तीनां भेदः, न तु तत्रापि ते वचनभेदः, यस्मादादित्यं पश्यति स्तौतीति दर्शनादिक्रियाभेदाद् भिन्नास्वपि शक्तिषु न बहवचनं दृश्यते। न पर्यायोक्तौ शक्तयः क्रियाभिरभिसंबध्यन्त इति चेत्, तन्न। प्रत्येकसमाप्ता अपि क्रियाभेदास्समस्याभिधानेषु वचनभेदं प्रयुञ्जते। यथा पञ्च शरानस्यति, सव्यापसव्याभ्यां विध्यति, द्वयोः पर्यङ्क्योश्शेते इति।