भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 701 to 710 of 756 verses
नैवं, शक्तिर्विशेष एवोच्यते। धातोः क्रियाविशेषवचनादेव प्रत्ययोत्पत्तेः। स च कार्यविशेषाश्रयभेदाभ्यामवधार्यते। तत्र कार्यभेदो धातुनैवाभिहितः; आश्रयभेदः पुनरप्रतीतः पदान्तरेणैवोच्यते चैत्रो मैत्र इति। तथाप्यन्यापेक्षा तुल्यैव। न चाश्रिताश्रययोस्सामाना— धिकरण्यम्। अतश्‍चैत्रो वर्तते इति न स्यात्, अपि तु चैत्रो वर्धत इति। अपि च धातुः क्रियाविशेषवचन एवेति कुत एतद् वर्धते, यावदनेन वर्धितव्यम्। इदं कर्म कुर्याः, 'नागरकवृत्तं' वर्तेत, समान् पोषान् अपुष्यत्' इत्यादौ सामान्यस्य विशेषः प्रतीयते।

यत्तु देवदत्तादेर्द्रव्यस्यैकत्वान्मध्ये द्व्यहादिः कालो न सम्भवतीत्युच्‍यते, तदपि न सम्यक्; आश्रितोपाधिनिमित्तस्य भेदस्योपपत्तेः। तथा हि वक्तारो भवन्ति, परुद्‌भवान्, पटुरासीत्, पटुतश्‍चैषमः, अद्यान्य एवासि संपन्न (मभा. ५.३.५७) इति। तदेवं सामर्थ्यभेदादाहितविभागमधिकरणं भागशोऽवच्छिद्य साधनभेदः प्रकल्प्यमानो मध्यमप्युपकल्पयति।

न च शक्तिपक्षेऽपि साक्षान्मध्यसम्भवः। पूर्वशक्तिकाले परस्याः, परकाले च पूर्वस्या अभावात्।

अथवा द्व्यहे भोक्तेत्यवधिसप्‍तमी द्व्यहाद् वा भोक्तेत्यवधेरेव पञ्चमी, स चान्त्यमोजनेनावच्छिद्यते। यदि तु मध्यसिद्धये द्रव्यभेदः शक्तिभेदश्‍च कल्‍प्यते, तदा कर्तृभेदाद् भुक्‍त्वेति क्‍त्वाप्रत्ययः 'समानकर्तृकयोः पूर्वकाले' (३.४.२१) इति न स्यात्।

उपचरिताभेदाश्रयस्स इति चेद्, मध्यं न सिध्यति। अथैकत्वाद् भुक्तिक्रियायां कारकैकत्वकालभेदाश्रयश्‍च कारकभेदः, स्‍नात्वा व्रजतीति न स्यात्; स्‍नानव्रजिक्रिययोश्‍च भेदात् तन्निमित्तयोः कर्तृशक्‍त्योरपि भेदे समानकर्तृकत्वाभावात्। ननु च यस्यापि द्रव्यमाश्रितशक्तिभेदसंपादितनानात्वं साधनं तस्याप्येष दोषः। अ(ना)पि च भिन्नाधारवर्तितया सामर्थ्ययोरभेदमाधेयशक्तिवादिना शक्‍यते वक्तुं समानः कर्तेति। यस्य तु शक्तिभेदोपनीतस्तदाधारस्य भेदः, तस्य निबन्धनमुपचरितमप्येकत्वं न विद्यते, अपेक्षणीयश्‍चाधारभेद, क्रियाभेदस्य पौर्वापर्यवतः अपेक्षितत्वात्।

अत्रोच्यते—द्रव्यस्यैकत्वेन शक्त्योरेकत्वमुच्यते। शक्तिनानात्वेन च द्रव्यस्यापि नानात्वं करिष्यते द्रव्यस्य तु पारमार्थिकमप्येकत्वं न मृष्यत इत्यहो कामचारः। अपि तु शक्तौ साधने पशौ कर्तरि हस्तिकवाटयोः कर्त्रोः इति (पमः न्यास. ३.२.५४) कथं शक्तिरेकाधारावच्छिन्ना प्रतिपद्यते ? प्रतिपद्यताम्, सामानाधिकरण्यं पृच्छामि; पशौ द्रव्ये यः कर्तेति चेत्, उपमानात् कर्तुरिति न प्राप्‍नोति।

अथ शक्तिभेदोपकरणाः कर्त्रादिश्रुतयः तदधिकरणं कार्ययोगितयाऽवगमयन्ति, शुल्कादय इव रूपविशेषाश्रयमिति सामानाधिकरण्योपपत्तेः। जितं तर्हि भवता, सिद्धश्शक्तिसाधनभेदः, कर्त्रादिश्रुतिभिराश्रयस्य शक्तिमतोऽभिधानात्।

किञ्च शक्तिकारकपक्षे कर्मण एकत्वे, कर्मणो द्वित्वे, कर्मणो बहुत्वे विभक्तिवचनादि न स्यात्; न हि गुणस्य संख्या संबन्धोऽपि; द्रव्ये तु युज्यते। यतः कर्मादिशब्दाः शक्तिमद्‌द्रव्यमविरुद्धसंख्यासम्बन्धं बोधयन्ति।

ननु गुणस्यापि संख्यासम्बन्धो दृश्‍यते पञ्च कर्माणि, चत्वारोऽभावा— स्त्रयस्संयोगा द्वे सामान्ये एकस्समवाय इति। न चायमुपचारः प्रत्ययाविशेषात् एवं शक्तयोऽपि कार्यभेदभिन्नास्सङ्ख्याभेदमनुभविष्यन्ति।

सत्यम्,अस्ति शक्तीनां भेदः, न तु तत्रापि ते वचनभेदः, यस्मादादित्यं पश्‍यति स्तौतीति दर्शनादिक्रियाभेदाद् भिन्नास्वपि शक्तिषु न बहवचनं दृश्‍यते। न पर्यायोक्तौ शक्तयः क्रियाभिरभिसंबध्यन्त इति चेत्, तन्न। प्रत्येकसमाप्‍ता अपि क्रियाभेदास्समस्याभिधानेषु वचनभेदं प्रयुञ्जते। यथा पञ्च शरानस्यति, सव्यापसव्याभ्यां विध्यति, द्वयोः पर्यङ्क्योश्शेते इति।

Showing 701 to 710 of 756 verses