अयं ललाटतटघटितविकटकीनाशतोरणत्रिशूलायमानभीषणभ्रुकुटिः क्रुद्धो
भीमसेन इत एवाभिवर्तते ॥ १३४ ॥
आविद्धपदं यथा— (मामा. ३.१५—१६)
एसो (क)खु . . . वज्जनिग्घाददारुणचवेडामोडि(अ)पाडिदानेअ—णरतुरंगम— जंगलुग्गार—भरिदगलगुहागं भीरघग्घरोल्लि/गल्लूरण—रण—सद्दसंदब्भ— पडिरवाभोअ—भीसाविद—णठ्ठविदासेस—जणणिहओ दुट्ठसद्दूलो कअंत— लीलाइदं करेइ ॥ १३५ ॥
आविद्धवाक्यं यथा—(काद. कथामुखम्)
यस्य च मदकलकरिकुम्भपीठपाटनमाचरतो लग्नस्थूलमुक्ताफलेन दृढमुष्टि— निपीडनान्निष्ठ्यूतधाराजलबिन्दुदन्तुरेणेव कृपाणेन कृष्यमाणा सुभटोरःकवाटपुट— घटितकवचसहस्रान्धकारमध्यवर्त्तिनी करिकरटतटगलितमदजलासार— दुर्दिनास्वभिसारिकेव समरनिशासु समीपमसकृदाजगाम राजलक्ष्मीः ॥ १३६ ॥
तदेतत्त्रिविधमपि आख्यायिकासु कथासु मधुमल्लिकादिषु च दृश्यते।
गद्यपद्यव्यायोगो मिश्रम्। तत्त्रिधा पद्यप्रधानं, गद्यप्रधानं, तुल्यरूपं चेति। तेषु— पद्यप्रधानं त्रिधा सजातीयेन विजातीयेनोभाभ्यां च।
तत्र सजातीयेनेतिहास— सुभाषितकोशादौ,