भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 651 to 660 of 689 verses
अयं ललाटतटघटितविकटकीनाशतोरणत्रिशूलायमानभीषणभ्रुकुटिः क्रुद्धो

भीमसेन इत एवाभिवर्तते ॥ १३४ ॥

आविद्धपदं यथा— (मामा. ३.१५—१६)

एसो (क)खु . . . वज्जनिग्घाददारुणचवेडामोडि(अ)पाडिदानेअ—णरतुरंगम— जंगलुग्गार—भरिदगलगुहागं भीरघग्घरोल्लि/गल्लूरण—रण—सद्दसंदब्भ— पडिरवाभोअ—भीसाविद—णठ्ठविदासेस—जणणिहओ दुट्ठसद्‍दूलो कअंत— लीलाइदं करेइ ॥ १३५ ॥

आविद्धवाक्यं यथा—(काद. कथामुखम्)

यस्य च मदकलकरिकुम्भपीठपाटनमाचरतो लग्‍नस्थूलमुक्ताफलेन द‍ृढमुष्टि— निपीडनान्निष्ठ्यूतधाराजलबिन्दुदन्तुरेणेव कृपाणेन कृष्यमाणा सुभटोरःकवाटपुट— घटितकवचसहस्रान्धकारमध्यवर्त्तिनी करिकरटतटगलितमदजलासार— दुर्दिनास्वभिसारिकेव समरनिशासु समीपमसकृदाजगाम राजलक्ष्मीः ॥ १३६ ॥

तदेतत्‍त्रिविधमपि आख्यायिकासु कथासु मधुमल्लिकादिषु च द‍ृश्यते।

(३. मिश्रम्)

गद्यपद्यव्यायोगो मिश्रम्। तत्‍त्रिधा पद्यप्रधानं, गद्यप्रधानं, तुल्यरूपं चेति। तेषु— पद्यप्रधानं त्रिधा सजातीयेन विजातीयेनोभाभ्यां च।

तत्र सजातीयेनेतिहास— सुभाषितकोशादौ,