भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 641 to 650 of 689 verses
त्रैलोक्यैकप्रदीपस्य भगवतस्सहस्त्ररश्मेरर्चिश्शिखासहस्त्र—

निष्ठ्यूतोऽञ्जनराशिरिव शार्वरस्तमस्तोमः स्त्यायते ॥ १३१ ॥

लघुबहुलं यथा—

व्यपगतघनपटलमचलजलनिधिसदृशवपुरम्बरतलं विलोक्यते ॥ १३२ ॥

मिश्रं यथा—(मामा. १.३५/३६)

'महाभाग! सुश्लिष्टगुणतया रमणीय एष सन्निवेशः। कुतूहलिनी च नो

भर्तृदारिका वर्तते, यतस्तस्यामभिनवो विचित्रः कुसुमेषुव्यापार' ॥ १३३ ॥

इति।

अललिताविद्धपदवाक्यम् उत्कलिकाप्रायम्। तदपि त्रिधा— अललिताविद्धपदवाक्यभेदात्।

तत्र अललितं यथा—(वेणीसंहार प्रस्तावनान्ते)

Showing 641 to 650 of 689 verses