भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 161 to 170 of 1013 verses
अत्र पुनरिदमेव सूत्रमन्यथा व्याख्यायते— 'तेन कारकविशेषेण तुल्यं यथा भवति। एवं चेत् क्रिया भवति भावोत्पन्नेऽपि हि प्रत्यये कदाचित् प्रत्ययमुखेन क्रियाविशेषणं भवति, कदाचित् प्रकृतिमुखेन। यथा— तीव्रः पाकः, तीव्रं पाकम् इति।

३. सम्बन्धिविशिष्टो यथा— ब्राह्मणस्येवाऽध्ययनमस्य ब्राह्मणवत्, राजवद् रौद्रं वृत्तमस्य राजवत्, जडस्य सदृशं वचनमस्य जडवत्, सूर्यस्येव प्रकाशोऽस्य सूर्यवत्, पितुर्यथा पालनमस्य पितृवत्, गुरोस्तुल्यमनुशासनमस्य गुरुवत् इति। अत्र तु 'तत्र तस्येव' (५.१.११६) इत्यनेन वतिः। ननु च 'तेन तुल्यमि'— (५.१.११५) त्यनेनैव सिद्धे किमर्थं 'तत्र तस्येव' इति सूत्रस्यारम्भः? द्रव्यगुणयोतुल्ययोः प्रत्ययो न लभ्य इति। यथा— मथुरायामिव पाटलिपुत्रे प्रासादा मधुरावत्, ब्राह्मणस्येव क्षत्रियस्य शुक्ला दन्ता ब्राह्मणवत् इति। यद्येवं पूर्वसूत्रे क्रियाग्रहणं न करिष्यते। साहचर्याच्च क्रियायामिव द्रव्यगुणयोः प्रातिपदिकं वर्त्तिष्यते। ततश्‍च मैत्रेयतुल्या गावश्‍चैत्रस्य, ब्राह्मणेन तुल्या दन्ताः क्षत्रियस्य इति विगृह्य पूर्वसूत्रेणैव वतिः सेत्स्यतीति। तदसत्।

एवं हि गवयेन तुल्योऽनड्वान् इत्यत्रापि प्रत्ययः प्रसजेत्, इवार्थे तु प्रत्यये सप्तमीषष्ठ्यन्ताभ्यामेव विधीयमाने गवय इवाऽनड्वानित्यत्र प्रत्ययप्रसङ्गो न स्यात्; सप्तम्यन्तषष्ठ्यन्तयोर्हि बाह्यं सम्बन्धिनमपेक्ष्य इवशब्दप्रयोगो भवति, न पुनरिवार्थापेक्षयेव; इवशब्दो ह्युपमानोपमेयलक्षणसंबन्धद्योतकः, न तु सम्बन्धि— रूपाभिधायी। तस्माद् गवयेन तुल्योऽनङ्वानित्यत्रापि मा भूत् प्रत्ययप्रसङ्ग इति पूर्वसूत्रे क्रियाग्रहणम्। तस्मिंश्‍च कृते द्रव्यगुणयोस्तुल्ययोः प्रत्ययो न स्यादिति सप्तमीषष्ठ्यन्ताभ्यामिवार्थे 'तत्र तस्येव' इति वतिर्विधीयते।

अथ 'तदर्हम्' (५.१.११७) इति किमर्थम् ?

अर्हतो या क्रिया कर्त्तुस्तत्रापि वतिरिष्यते।

उपमानाविवक्षायां तद्‌विधानं न लभ्यते ॥ ८ ॥

उपमानोपमेयत्वमन्यस्यान्येन वा सह।

अवस्थाभेदभिन्नत्वादेकस्याप्यात्मनैव वा ॥ ९ ॥

(वाप. ३ वृत्तिः।)

तत्रान्यस्यान्येन यथा— अवैयाकरणोऽप्ययं वैयाकरणवद् ब्रूते; योषिदप्येषा पुंवद्‌वक्‍तीति; अवस्थाभेदभिन्नत्वादेकस्याप्यात्मनो यथा— वैयाकरणः केनचिदुच्यते वैयाकरणवद् ब्रूहीति; योषिदप्युच्य़ते स्त्रीवद् वदेति। वैयाकरणोऽप्यवज्ञया कदाचिद् — वैयाकरणवद् ब्रूते। श्रूयते हि— यर्वाणस्तर्वाणो नाम साक्षात्कृतध /?/र्म्माण ऋषयो बभूवुः। ते हि 'अन्तर्वेद्यामेव न म्लेच्छितव्यम्, अतोऽन्यत्रावज्ञया' इति 'यद्‌वा नस्तद्‌वा न' इति वक्‍तव्ये यर्वाणस्तर्वाण इत्यूचुः {मभा.१.१.१ (९)}। योषिदपि कदाचिदाश्रितप्रागल्भ्यात् पुंवद्‌वक्ति यथोच्यते—

Showing 161 to 170 of 1013 verses