भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 141 to 150 of 1013 verses
अभिधानं तु शब्दः। स च येनोच्चारितेनार्थः प्रतीयते। तस्यापि न गोत्वमवधिर्भवति। शब्दो हि आकाशादेव जायते, मुखादेव प्रभवति, न गोत्वादेः। तदाहुः 'मुखे हि शब्दमुपलभामहे भूमावर्थम्' (शाबरभाष्यम् १.१.५) इति। यदापि नित्यः शब्द इति मतं तदापि शब्दस्य गोत्वादयो वाच्या विशेष्याः प्रत्याय्या एव भवन्ति। तत्र च शब्दस्य गोत्वादीनां वाच्यत्वे विशेष्यत्वे वा कर्मतैव, नावधित्वम्। प्रत्याय्यत्वे तु विपरिणामविपरिवर्त्तपक्षयोर्वक्ष्यमाणन्यायेन प्रत्युत शब्दस्यैवाऽवधित्वम्। अध्यासस्तु सादृश्यादुपाधेरुपाधिसादृश्याभ्यां वा संभवति; यथा— शुक्तिकादौ रजतादेः, स्फटिकादौ रक्तादेः, प्रतिबिम्बादौ मुखादेरिति। तत्र यो यदध्यास्यते, यो यदध्यास्ते वा, स तस्याधिकरणं कर्म वा स्यान्न त्ववधिः; गोत्वं निमित्तमुपादाय गोशब्दो गामध्यास्ते गवि वाऽध्यास्यते। तदिष्यत एव 'यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः तदभिधाने त्वतलौ' इति ॥

(बहिरङ्गः) धात्वर्थरूपः कृदभिधेयो बहिरङ्गः। सोऽपि षोढा— १. भावरूपः, २. कारकरूपः, ३. संबन्धिरूपः, ४. भावविशिष्टः, ५. कारकविशिष्टः, ६. संबन्धिविशिष्टश्‍चेति। तत्र —

(१. भावरूपः)

प्रवृत्तिनिमित्ततुल्यो भावरूपः — ब्राह्मणस्य कर्म ब्राह्मण्यम्, पुरोहितस्य पौरोहित्यम्, स्तेनस्य स्तेयम्, सख्युः सख्यम्, दूतस्य दूत्यम्, वणिजो वाणिज्यमिति।

(२. कारकरूपः)

कारकैस्तुल्यकक्ष्यः कारकरूपः। यथा— राजानमर्हति राजवद् वृत्तम्। आप्रयोजनकालं भवति आकालिकी प्रवृत्तिः, श्येनस्येव पातोऽस्यां वर्त्तते श्यैनंपाता क्रियां, दण्डः प्रहरणमस्यां क्रीडायां दाण्डा, (४.२.५७) महिमास्त्यस्यां महिमिनी समस्या, वटकं प्रकृतमस्यां वटकमयी यात्रेति (मभा. ५.२.८२)।

(३. सम्बन्धिरूपः)

रूढे द्रव्यभूतः सम्बन्धिरूपः। यथा— चाषाणां समूहः चाषम्, नाट्यानामाम्नायो नाट्यम्, भृग्वङ्गिरसां विवाहो भृग्वङ्गिरसिका, काकोलूकस्य वैरं काकोलूकिका, अवीनां संघातोऽविकटः, तेषामेव विस्तारोऽविपटः इति।

(४. भावविशिष्टः)

अतर्कितोपनतचित्रीकरणादिसदृशो भावविशिष्टः। यथा— काकस्य चागमनं यादृच्छिकम्, तालस्य च पातः। तेन तालेन पतता काकस्य वधः। एवमेव देवदत्तस्य चागमनं दस्यूनां चोपनिपातः, तैश्‍च तस्य वधः। तत्र यो देवदत्तस्य दस्यूनां च समागमः स काकतालसमागम इवेत्येक उपमार्थः, यश्‍च देवदत्तवधः स काकवध इवेति द्वितीय उपमार्थः।

Showing 141 to 150 of 1013 verses