भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 151 to 160 of 1013 verses
तत्र प्रथमः समासार्थः काकतालमिति, द्वितीयः प्रत्ययार्थः काकतालीयमिति। समासश्‍चायमस्मादेव ज्ञापकाद् यदाह 'समासाच्च तद्‍‌विषयाद् (५.३.१०६) आकस्मिक इवार्थे छो भवति। तद्‍‌विषयादित्यत्र हि तदित्यनेन 'इवे प्रतिकृतौ' (५. ३.९६) इति इवार्थः। एवम्

अजाकृपाणीयम् (काशिका ५.३.१०६), अन्धकवर्त्तकीयम् (काशिका ५.३.१०६), घुणाक्षरीयम्, अर्धजरतीयम्, गोमयपा/वा—यसीयम् (गणरत्न. ३.३.१९६) इति।

(५. कारकविशिष्टः)

कारकावच्छिन्नः कारकविशिष्टः। यथा— मतस्य करणं मत्यम्, पीलूनां पाकः पीलुकुणः, जनस्य जल्पो जन्यः, शिवस्य भवनं शिवतातिः, नासाया अवनतिः अवटीटः (५.२.३१), धने कामः धनक इति।

(६. संबन्धिविशिष्टः)

सम्बन्धिनाऽवच्छिन्नः संबन्धिविशिष्टः। यथा— हल्यः, कर्षः, सौधः संकोचः, पौरुषेयो वधः, आथर्वण आम्नायः, वैदो घोषः, छान्दोग्यो धर्मः इति। उपाधिरपि संबन्ध्येव भवति। यथा— गार्गिकया विकत्थते, काठिकया अधिक्षिपति, गार्गिकामन्ववेतः, गार्गिकामवगतवान्, काठिकामवगतवान् इति। धात्वर्थोऽपिभाव एव।

क्रियापि ह्युपमानेन परीता परिच्छिन्ना साध्यसिद्धभावो भवति। स त्रिधा— १. भावविशिष्टः, २.कारकविशिष्टः, ३.संबन्धिविशिष्टश्‍चेति। तेषु—

१. भावविशिष्टो यथा— ब्राह्मणेन तुल्यमधीते ब्राह्मणवत्, राज्ञा सदृशं वर्त्तते राजवत्, जडस्य तुल्यं ब्रूते जडवत्, सूर्य इव प्रकाते सूर्यवत्, पिता यथा पालयति पितृवत्, गुरुरिवानुशास्ति गुरुवदिति।

अत्र ब्राह्मणादिस्थासु अध्ययनक्रियासु साहचर्याद् वृत्तिः, जातिद्रव्ययोरन्यतरेण क्रियायाः सादृश्यानुपपत्तेः। यदाह— 'तेन तुल्यं क्रिया चेद् वतिः' (५.१.११५); तेनेति तृतीयासमर्थात् तुल्यमित्येतस्मिन्नर्थे वतिप्रत्ययो भवति तत्‍तुल्यं क्रिया चेत् सा भवति। अर्थपरं चैतत्; तेन सदृशेत्यादिप्रयोगेष्वतृतीयान्तादपि भवति।

२. कारकविशिष्टो यथा— राज्ञेव व्यवहृतमनेन राजवत्, देवमिव भवन्तं पश्यामि देववत्, असिनेव दात्रेण च्छिनत्ति असिवत्, ब्राह्मणायेव यदा देवदत्ताय ददाति ब्राह्मणवत्, पर्वतादिवासनादवरोहति पर्वतवत्, पितरीव गुरावाचरते पितृवत्।

Showing 151 to 160 of 1013 verses