सरस्वतीव कर्णाटी विजयाङ्का जयत्यसौ। या वैदर्भगिरां भूमिः कालिदासादनन्तरम् ॥ १० ॥
अस्यौपम्यद्वयस्यापि विवक्षातोऽपरिग्रहे।
वतिः कथमिवार्थीय इति मत्वायमुच्यते ॥ ११ ॥
तत्र 'राजवद् वृत्तमित्यत्र यदा एवंविधा अर्थविवक्षा— 'पृथ्वादिना राज्ञा तुल्यं वृत्तम् अनेन राज्ञा राजवद् वृत्तं राज्ञे'—ति तदाऽऽद्येनैव सूत्रेण सिद्धः प्रत्ययः; यदा त्वेतादृशी विवक्षा—'राज्ञ इव पृथोरस्य वृत्तं राजवद्वृत्तं राज्ञ इति तदा द्वितीयसूत्रेण। यदा त्विदं वृत्तं राजानमेवाऽर्हति नान्यमित्युपमानोपमेयभावाभावे राजवद् वृत्तमिति प्रयोगस्तदा 'तदर्हम्' इत्यनेन वतिर्विधीयत इति नानर्थकः सूत्रारम्भः ॥
अन्ये तु 'तेन तुल्यं क्रिया चेद् वतिः' इत्यत्र द्वितीयव्याख्यानपक्षे क्रियायाः क्रिया विशेषणं न संभवतीति कारकविशिष्टभावपक्षं 'तदर्हम्' इत्यनेन संवाहयति, राजानमर्हति यद् व्यवहरणम्, देवमर्हति यद् दर्शनम्, असिमर्हति यच्छेदनम्, ब्राह्मणमर्हति यद्दानम्, पर्वतमर्हति यदवरोहणम्, पितरमर्हति यत् पारतन्त्र्यम् तदुच्यते राजवत्, देववत्, असिवत्, ब्राह्मणवत्, पर्वतवत्, पितृवदिति। राज्ञेव व्यवहृतमित्यादिभिस्तु तस्यार्थः प्रदर्शित' इति ॥
कारकमपि भाववदेवाऽन्तरङ्गं बहिरङ्गं च।
तयोराख्याताभिधेयमन्तरङ्गम्, अनाख्याताभिधेयं बहिरङ्गम्।
(अन्तरङ्गभेदेषु) कर्त्ता, हेतुकर्त्ता, कर्मकर्त्ता, कर्म चेति;