१. अनुद्रिक्तकर्मांशो यथा— अक्षद्यूतेन निर्वृत्तमाक्षद्यूतिकं धनम्, पाकेन निर्वृत्तं पाकिमम्,
माणिकम् (५.४.२९) इति। (माणिक इति राघवः)
२. उद्रिक्तकर्मांशो यथा— वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः, षष्टिरात्रेण पच्यन्ते
३. अनुद्रिक्तोद्रिक्तकर्मांशो यथा— वशं गतो वश्यः, शीर्षच्छेदमर्हति शीर्षच्छेद्य इति।
कर्म १. निर्वर्त्त्यम् २. विकार्यम् ३. प्राप्यं च। तत्र —
१. (निर्वर्त्त्यम्) यद् असज्जन्यते, सद् वा प्रकाश्यते तन्निर्वर्त्त्यम्। यथा— उरसा निर्मित औरसः पुत्रः, पाणिनिना प्रोक्तं पाणिनीयं व्याकरणम् इति।
२. (विकार्यम्) यस्य प्रकृत्युच्छेदो गुणान्तरं वा विधीयते तद् विकार्यम्। यथा विषेण वध्यो विष्यः शत्रुः, कुसुम्भेन रक्तं कौसुम्भं वस्त्रमिति।
३. (प्राप्यम्) आस्थितमनास्थितं वा क्रियया यदाप्तुमिष्यते तत् प्राप्यम्। यथा नावा तार्यो नाव्यो ह्रदः, अयानयं नेयः अयानयीनः शार (५.२.१ न्यास.) इति।
ननु शारोऽप्यास्थितः कस्मान्न भवति ?