(३) नैमित्तिकमपि द्विधैव— शुद्धं सङ्कीर्णं च।
तयोराद्यं यथा—(गास. वे. ७३४)
कडुए/कह दे धूमंधारे अब्भुत्तणमग्गिणो समप्पिहिइ।
मुहकमल—चुबणालेहडम्मि पासट्ठिए दिअरे ॥ ४० ॥
(कटुके/कथं सखि धूमान्धकारेऽभ्युत्तेजनमग्नेः समाप्स्यते।
मुखकमलचुम्बनलम्पटे पार्श्वस्थिते देवरे॥)
इहाधीती पूर्वे धृतधरणिभारः कमठरा— डपां नाथेनास्माद्गिरिशतशरण्येन पठिताः।
ततः प्राप्ता दूरीकृतभुवनतापैर्जलधरै— स्सतां तु स्वोपज्ञ सततमुपकारोपनिषदः ॥ ४१ ॥