प्रवृत्तप्रयोजकस्तु निमित्तविशेषो हेतुः कर्ता च भवति।
सोऽपि त्रिधा— १. प्रेरकः, २. अनुकूलः, ३. प्रत्यायकश्च।
(१) तत्र प्रेरको द्विधा— व्यवहितोऽव्यवहितश्च।
तयोर्व्यवहितो यथा— (रघु. ६.८३)
सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः।
आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम् ॥ ४२ ॥
अव्यवहितो यथा— (माघ. १०.१६)
सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु।
गन्तुमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥ ४३ ॥
(२) अनुकूलोऽपि द्विधा— सिद्धः, साध्यश्च।