पूर्वोत्तरैर्यदा भागैस्समवस्थापितक्रमः।
एकस्सोऽप्यसदध्यासादाख्यातैरभिधीयते॥ २९॥
यश्चापकर्षपर्यन्तमनुप्राप्तः प्रतीयते।
तत्रैकस्मिन् क्रियाशब्दः केवले न प्रयुज्यते॥ ३०॥
न त्वेवम्; इन्द्रयैरभिसंबन्धात् सरूपसन्निधानाय वर्तमानव्यपदेशाच्च कथमप्रत्यक्षत्वं क्रियायाः ?
उच्यते; नेह वस्त्वर्थो निरूप्यते, अपि तु शब्दार्थः तत्र चान्वयव्यतिरेकाभ्यां यः प्रकृत्यर्थोऽवस्थाप्यते, या क्रियावचनस्य धातुसंज्ञा, नासौ शक्या साक्षादुपलब्धुम्। तत्र हि आचार्याणां मतभेदः।
एके मन्यन्ते— अधिश्रयणादीनां समुदायो बुद्ध्या निगृहीतः, एकत्वेन स पचतीत्यादीनां वाच्य इति। न च समुदायं पचतीति प्रयुञ्जानः प्रत्येकमधिश्रयणादिषु प्रत्यस्यति, प्रत्ययाश्च न समुदाय इत्येवंरूपं प्रत्यस्यन्ति। नापि 'अयं च अयं च' इति संबन्धिनो बुद्ध्यावगृह्णाति। किं तर्ह्याश्रितक्रमरूपमिव प्रत्येकमवयवेषु प्रत्यस्य पचतीति प्रयुङ्क्ते, तदा तस्यैव समीहितं भवति, अधिश्रयणाद्यानुपूर्व्या फलमोदनादि निर्वर्तयितव्यमिति। यथा प्रथमक्रियासंभागे पचिरित्येवाध्यवस्यति नाधिश्रयणमिति। इतरथा ह्येवं प्रयोगः तस्याधिश्रयतीति; यदा चाधिश्रयणे निर्वृत्ते नागते वा भूतभविष्यत्कालाभिधायिनं शब्दं प्रयुङ्क्ते, तदा समुदायरूपप्रत्यासेनैव तमवयवबुद्ध्या निगृह्य प्रयुङ्क्ते अपाक्षीत्, पक्ष्यतीति। न त्वधिश्रयणरूपेण, अन्यथा ह्येवं प्रयोगस्स्यात् अध्यशिश्रयत्, अधिश्रयिष्यतीति। एवमावपने विचटने वा समूहिनि समुदायरूपप्रत्यासादेव धातुताव्यपदेशात्, पचत्यपाक्षीत् पक्ष्यति। एवंभूतश्चार्थात्माऽधिकृतः साधनतन्त्रसाध्यावस्थः शब्देन प्रक्रान्तोऽशक्य उपलब्धुम्; यथा गौरिति गकारौकारविसर्जनीया एवोपलभ्यन्ते, समुदायस्तु बुद्धिनिर्ग्राह्य एव, तथा पचतीत्यादिष्वेवाधिश्रयतीत्यादिषु अवयवा एव हस्तप्रसरणस्थाली— विन्यासादयोऽशब्दवाच्या, अप्रत्यक्षा एव। यावदपकर्षपर्यन्तप्राप्ता क्रियेति सापि नाप्रत्यस्ते क्रमरूपे समुदाये आख्यातशब्देनाभिधीयते। अपकर्षपर्यन्ता चेत् क्रमरूपेण न अवगृह्णादिति अवाचक एवाख्यातशब्दः। यथा श्लोकशब्दं प्रयुञ्जानं आद्यं पदं पदरूपेणावगृह्णाति न तदा श्लोकस्समुच्चार्यत इति प्रयुङ्क्ते यदा वाश्रितोत्तरप्रबन्धमवगृह्णाति तदा श्लोकशब्दं प्रयुङ्क्ते। एवं कृत्वा निरुक्तेऽप्युक्तं 'पूर्वापरीभूतं भावमाख्यातेनाचष्ट' इति।
अन्येषां दर्शनं(वाप. ३ क्रिया) यद् विचटनं तण्डुलावयवानां तण्डुलावयवेभ्यो विभागः, यदनन्तरं मार्दवादयो निष्पद्यन्ते, तद्यदाऽधिश्रयणादिषु प्रत्यस्तरूपं भवति तदाऽऽख्यातेना— भिधीयते। तत्र यदुपलभ्यतेऽधिश्रयणं तदशब्दवाच्यम्; कारकनिराकाङ्क्षं यच्छब्देनाभिधीयते तदनिष्पन्नं साधनतन्त्रमप्रत्यक्षम्; निष्पन्नानिष्पन्नयोश्चैकात्म्यापत्तौ पचत्यादिशब्दप्रयोगः। स चायमेवंरूपोऽर्थात्मा गुणक्रियाणां पौर्वापर्यात्मनां न पूर्वो न परश्च पूर्वापरीभूतो व्यपदिश्यते।