भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 201 to 210 of 756 verses
पूर्वोत्तरैर्यदा भागैस्समवस्थापितक्रमः।

एकस्सोऽप्यसदध्यासादाख्यातैरभिधीयते॥ २९॥

(वाप. ३.८.११)

यश्‍चापकर्षपर्यन्तमनुप्राप्तः प्रतीयते।

तत्रैकस्मिन् क्रियाशब्दः केवले न प्रयुज्यते॥ ३०॥

(वाप. ३.८.१०)

न त्वेवम्; इन्द्रयैरभिसंबन्धात् सरूपसन्निधानाय वर्तमानव्यपदेशाच्‍च कथमप्रत्यक्षत्वं क्रियायाः ?

उच्यते; नेह वस्त्वर्थो निरूप्यते, अपि तु शब्दार्थः तत्र चान्वयव्यतिरेकाभ्यां यः प्रकृत्यर्थोऽवस्थाप्यते, या क्रियावचनस्य धातुसंज्ञा, नासौ शक्‍या साक्षादुपलब्धुम्। तत्र हि आचार्याणां मतभेदः।

एके मन्यन्ते— अधिश्रयणादीनां समुदायो बुद्ध्या निगृहीतः, एकत्वेन स पचतीत्यादीनां वाच्य इति। न च समुदायं पचतीति प्रयुञ्जानः प्रत्येकमधिश्रयणादिषु प्रत्यस्यति, प्रत्ययाश्‍च न समुदाय इत्येवंरूपं प्रत्यस्यन्ति। नापि 'अयं च अयं च' इति संबन्धिनो बुद्ध्यावगृह्‍णाति। किं तर्ह्याश्रितक्रमरूपमिव प्रत्येकमवयवेषु प्रत्यस्य पचतीति प्रयुङ्क्ते, तदा तस्यैव समीहितं भवति, अधिश्रयणाद्यानुपूर्व्या फलमोदनादि निर्वर्तयितव्यमिति। यथा प्रथमक्रियासंभागे पचिरित्येवाध्यवस्यति नाधिश्रयणमिति। इतरथा ह्येवं प्रयोगः तस्याधिश्रयतीति; यदा चाधिश्रयणे निर्वृत्ते नागते वा भूतभविष्यत्कालाभिधायिनं शब्दं प्रयुङ्क्ते, तदा समुदायरूपप्रत्यासेनैव तमवयवबुद्ध्या निगृह्य प्रयुङ्क्ते अपाक्षीत्, पक्ष्यतीति। न त्वधिश्रयणरूपेण, अन्यथा ह्येवं प्रयोगस्स्यात् अध्यशिश्रयत्, अधिश्रयिष्यतीति। एवमावपने विचटने वा समूहिनि समुदायरूपप्रत्यासादेव धातुताव्यपदेशात्, पचत्यपाक्षीत् पक्ष्यति। एवंभूतश्‍चार्थात्माऽधिकृतः साधनतन्त्रसाध्यावस्थः शब्देन प्रक्रान्तोऽशक्‍य उपलब्धुम्; यथा गौरिति गकारौकारविसर्जनीया एवोपलभ्यन्ते, समुदायस्तु बुद्धिनिर्ग्राह्य एव, तथा पचतीत्यादिष्वेवाधिश्रयतीत्यादिषु अवयवा एव हस्तप्रसरणस्थाली— विन्यासादयोऽशब्दवाच्या, अप्रत्यक्षा एव। यावदपकर्षपर्यन्तप्राप्‍ता क्रियेति सापि नाप्रत्यस्ते क्रमरूपे समुदाये आख्यातशब्देनाभिधीयते। अपकर्षपर्यन्ता चेत् क्रमरूपेण न अवगृह्‍णादिति अवाचक एवाख्यातशब्दः। यथा श्‍लोकशब्दं प्रयुञ्जानं आद्यं पदं पदरूपेणावगृह्‍णाति न तदा श्लोकस्समुच्‍चार्यत इति प्रयुङ्क्ते यदा वाश्रितोत्तरप्रबन्धमवगृह्‍णाति तदा श्लोकशब्दं प्रयुङ्‌क्ते। एवं कृत्वा निरुक्तेऽप्युक्तं 'पूर्वापरीभूतं भावमाख्यातेनाचष्ट' इति।

अन्येषां दर्शनं(वाप. ३ क्रिया) यद् विचटनं तण्डुलावयवानां तण्डुलावयवेभ्यो विभागः, यदनन्तरं मार्दवादयो निष्पद्यन्ते, तद्यदाऽधिश्रयणादिषु प्रत्यस्तरूपं भवति तदाऽऽख्यातेना— भिधीयते। तत्र यदुपलभ्यतेऽधिश्रयणं तदशब्दवाच्यम्; कारकनिराकाङ्क्षं यच्छब्देनाभिधीयते तदनिष्पन्नं साधनतन्त्रमप्रत्यक्षम्; निष्पन्नानिष्पन्नयोश्‍चैकात्म्यापत्तौ पचत्यादिशब्दप्रयोगः। स चायमेवंरूपोऽर्थात्मा गुणक्रियाणां पौर्वापर्यात्मनां न पूर्वो न परश्‍च पूर्वापरीभूतो व्यपदिश्‍यते।

Showing 201 to 210 of 756 verses