भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 211 to 220 of 756 verses
अन्ये तु विचटनमेवाधिश्रयणादिरूपं प्रतिपन्नाः, न रूपशून्यानधिश्रयणादीन् अप्रत्यस्तविचटनरूपान्; आहुश्‍च कः पुनः पचेः प्रधानार्थः? याऽसौ तण्डुलानां विक्‍लित्तिः। (मभा. ३.१.२६)।

अथवा यदभिसंधिपूर्वकं प्रेषणमध्येषणं वा स सर्वः पच्यर्थ इति। सर्वस्मिन्नपि दर्शने यथाभूताख्यातशब्देन क्रिया प्रक्रम्यते, तथाभूतायाः सिद्धमप्रत्यक्षत्वमिति फलेनैव समाधिगमो युक्तः। स कथमिति चेत्, इह सर्वेषु साधनेषु सन्निहितेषु कदाचित् पचतीत्येतद् भवति, कदाचिन्न भवति, यस्मिन्निमित्ते सन्निहिते पचतीत्येतद्, भवति सा नूनं क्रिया, 'यथा देवदत्त इह भूत्वा पाटलिपुत्रे भवति, सा नूनं क्रिया' इति (मभा. १. ३. १)। द्वितीयहेतुशक्‍त्या सोऽप्यर्थ इति चेन्नैवम्; इह कस्यचिदेषा बुद्धिः स्यात्; असत्येवास्मिन्निमित्ते पचत्यादिबुद्धयः प्रबर्तन्ते, यथा मृगतृष्णिकादिष्विति तदनेन निर्वर्तयति (वाप. ३ क्रिया)। मृगतृष्णिकादिभ्यो हि तृप्‍तिमलापकर्षणघर्मापनोदनादि न फलं निर्वर्तते। असर्वगतयोर्हि देवंदत्तपाटलिपुत्रयोर्गमनक्रियान्तरनैरन्तर्येणावस्थानरूपं फलमुपलभ्यते।

अथवा एतदयं प्रतिपद्येत, शक्तिकृताः पचत्यादयो विशेषोः सप्रत्ययाश्‍च स्युः, न क्रियाकृता इति, तदनेन निर्वर्तयति, यया देवदत्त इह भूत्वा पाटलिपुत्रे भवति सा नूनं क्रियेति। यदि ह्येते शक्तिकृतास्स्युः शक्‍त्यनन्तरमेव पाटलिपुत्रेण प्राप्तिः स्यात्। न च भवति, तस्माद् भवितव्यं शक्तिकृतेनान्येन धर्मेण, यस्य फलं देशान्तरप्राप्तिरिति।

क्रियामन्ये तु मन्यन्ते क्‍वचिदप्यनपाश्रिताम्।

साधनेकार्थकारित्वे प्रवृत्तिमनपायिनीम्॥ ३१॥

(वाप. ३.८.३७)

सामान्यभूता धात्वर्थैस्सा पुनः प्रविभज्यते।

ततो व्यापाररूपेण साध्ये पर्यवतिष्ठते॥ ३२॥

(वाप. ३.८.३८)

प्रकृतिस्साधनानां सा प्रथमं तच्‍च कारकम्।

Showing 211 to 220 of 756 verses