अथ प्रत्ययार्थोपाधिः तत्र कारकोपाधिषु पुरुष उक्तः; सङ्ख्या त्वग्रतोऽभिधास्यते। अपरेऽपि चास्य विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनप्रैषातिसर्गप्राप्तकालशक्त्यर्ह— गर्हादयः उपाधयो भवन्ति। तद्यथा— अग्निहोत्रं जुहुयात्, इह भवान् भुञ्जीत, इह भवानानासीत्, भवान्माणवकमध्यापयेत्, किं नु खलु व्याकरणमधीयीय इतः उत छन्दः, लभेयाहं भिक्षाम्; आशंसनमपि प्रार्थनमेवः चिरं जीव्याः, ग्रामं गच्छ, गच्छानुज्ञातोऽसि, कुरु कटं प्राप्तस्ते कालः कटकरणे, भवान् खलु शत्रुं हन्यात्, तत्रभवान् खलु भारं वहेत्, कथं नाम तत्रभवान् वृषलं याजयेदिति।
एवमन्येऽपि तच्छीलतद्धर्मतत्साधुकारिहेत्वानुलोम्यशक्तिवयोवचनाकृच्छ्रानुद्यमन— शिल्पिलक्षणलिङ्गादयोऽवगन्तव्याः। यथा— वदिता जनापवादान्, मुण्डयितारः श्राविष्ठायनाः वधूमूढाम्, कन्यामलङ्करिष्णुः, यशस्करी विद्या, आज्ञाकरी भार्या, हस्तिघ्नो भटः, कवचहरः क्षत्रियकुमारः, धारयन्नुपनिषदम्, अंशहरस्सुतः, नर्तकी वेश्या, जायाघ्नस्तिलकः, व्यासस्य वचनं, पाणिनेरुक्तिः, कालिदासस्य प्रबन्ध इति।
अथोभयोपाधिः। सोऽपि संज्ञाजातिप्रभासपरिमाणद्यूताभ्रेषभाषाच्छन्दोमन्त्र— ब्राह्मणाशीरुत्क्रोशादिभेदादनन्तप्रकारः। तद्यथा 'क्तिच्क्तौ च संज्ञायाम्' (३.३.१७४), भद्रभूतिर्देवदत्त इति, हस्ता पुरोढा (हस्ती पुरुषः?) इति। 'द्वितीया ब्राह्मणे' (२.३.६०) गामस्य तदहस्सभायां दीव्येयुः, पष्ठौहीं दीव्यतीति; आशिषि वुन्, जीवतात् जीवकः, नन्दतात् नन्दक इति। 'माङ्याक्रोशे' (३.२.१२६ वा.६), 'आक्रोशे नञ्यनिः' (३.३.११२),
मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति।
तस्याजननिरेवास्तु जननीक्लेशकारिणः॥ १६॥
एवमन्येऽप्यसूयासंमतिकोषकुत्सनभर्त्सनाबाधप्रकाराकृच्छ्रपर्यायार्हणोत्पत्ति— प्रभृतयोऽवगन्तव्याः। तेषु —
असूया यथा— माणवक ३ माणवक, अभिरूपक३ अभिरूपक, रिक्तं ते आभिरूप्यम्।
संमतिः यथा— माणवक ३ माणवक, अभिरूपक३ अभिरूपक शोभनः खल्वसि।
कोपो यथा— माणवक ३ माणवक, अविनीतक३ अविनीतक इदानीं ज्ञास्यसि जाल्म।