भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 201 to 210 of 841 verses
प्रकृत्यर्थनिमित्तो यथा—'विभाषाकर्मकात्' (१.३.८५), 'विभाषा विप्रलापे' (१.३.५०), उपरमति उपरमते, संप्रवदन्ति मौहूर्ताः, संप्रवदन्ते मौहूर्ता इति।

प्रत्ययनिमित्तो यथा—'द्युद्‌भ्यो लुङि' (१.३.९१), 'वृद्‍भ्यः स्यसनोः' (१.३.९२), अद्युतत् अद्योतिष्ट, वर्त्स्यति, वर्तिष्यत इति।

प्रत्ययार्थनिमित्तो यथा— रज्यति रज्यते, कुष्यति कुष्यते, 'कुषिरजोः प्राचां श्यन्', 'परस्मैपदं च कर्मकर्तरि' इति।

उपस्कारनिमित्तो यथा— 'उपसर्गादस्यत्यूह्योर्वा' (१.३.२९ वा. ३), उदस्यति उदस्यते, समूहति समूहत इति।

उपस्कारार्थनिमित्तो यथा 'वा लिप्सायाम्' (१.३.२५ वा. २), 'विभाषोपपदेन प्रतीयमाने' (१.३.७७); भिक्षुको ब्राह्मणकुलमुपतिष्ठति उपतिष्ठते, ब्राह्मणस्स्वं यज्ञं यजति, यजत इति।

* परस्मैपदयोगे प्रकृत्यर्थनिमित्तः प्रत्ययनिमित्तश्‍चेति भेदाविमौ न स्पृष्टौ।

एवमन्येऽपि हेतुलक्षणाभीक्ष्ण्यभृशार्थगर्हाकौटिल्यलसाकल्यपूर्वकालतादर्थ्यादयः प्रकृत्यर्थोपाधिविशेषा वेदितव्याः, यथा— अधीयानो वसति, पचन्नास्ते, पुनः पुनः पठति पापठ्यते, पुनः पुनः पचति पापच्यते, गर्हितं दहति दन्दह्यते, कुटिलं क्रामति चङ्क्रम्यते, कन्यादर्शं वरयति, भुक्त्वा व्रजति, भोक्तुं व्रजति इति। एवमेते धातुरूपायाः प्रकृतेरर्थोपाधयः॥

(प्रत्ययार्थोपाधिः)

प्रत्ययरूपायाः स्वप्रत्ययार्थोपाधय एवोपाधयो भवन्ति।

प्रातिपदिकरूपायास्तु स्वार्थद्रव्यलिङ्गसङ्ख्यापरिमाणकारकसंबन्धसंबोधनसहार्थ— तादर्थ्यहेतुलक्षणादय उपाधयो विद्यन्ते। ते तु प्रत्ययार्थोपस्कारार्थप्रातिपदिका— र्थेष्वनन्तरमेव वर्णयिष्यन्त इति नेह प्रतन्यन्ते।

Showing 201 to 210 of 841 verses