भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 201 to 210 of 595 verses
जात्याधारो व्यक्तिः।

सा त्रिधा— द्रव्यव्यक्तिः, गुणव्यक्ति, क्रियाव्यक्तिश्‍च। तासु— द्रव्यव्यक्तिः द्विधा— शुद्धा मिश्रा च। तयोः —

आद्या यथा गां बधान, गां दोग्धि, त्वं पचसि, अहं पचामीति।

द्वितीया यथा—

मगधेषु स्तनौ पीनौ कलिङ्गेष्वक्षिणी शुभे।

बाहू प्रलम्बावङ्गेषु वङ्गेषु चरणौ मृदु॥ १४॥

इति।

गुणव्यक्तिः द्विधा— मुख्या गौणी च। तयौः—

आद्या यथा श्वेतं रूपं पश्‍यामि, मधुरं रसमास्वादयामि, सुगन्धिं गन्धमाजिघ्रामि, शीतं स्पर्शमनुभवामीति।

द्वितीया यथा— 'तीव्रः प्रतापो मधुरं वचस्ते यशोऽवदातं सुरभिः स्वभावः।' इति।

Showing 201 to 210 of 595 verses