द्रव्यजातिर्द्विधा— संस्थादि(न)व्यङ्ग्या उपदेशव्यङ्ग्या च। तयोः—
आद्या यथा गौः पदा न स्प्रष्टव्या, सम्पन्नो व्रीहिः सुभिक्षं करोतीति।
द्वितीया यथा ब्राह्मणो न हन्तव्यः,कठः प्रवक्ता भवतीति।
गुणजातिः द्विधा— प्रत्यक्षा अनुमेया च। तयोः
आद्या यथा श्वेतं छागमालभेत, अम्लो रसः पाचनो दीपन इति।
द्वितीया यथा दक्षः श्रियमधिगच्छति, कामी मण्डनप्रियो भवतीति।
क्रियाजातिः द्विधा— सामान्यरूपा विशेषरूपा च। तयोः—
आद्या यथा रैपोषं पुष्यति, नागरकवृत्तं वर्तेतेति।
द्वितीया यथा अष्टका कर्तव्या, विश्वजिता यजेतेति।