तत्रात्यन्तजहत्स्वार्थायां वृत्तौ पुरुषशब्दे पुरुषार्थाभिधायिनि सर्वशब्देषु च प्रतिनियतार्थाभिनिवेशिषु भेद एव सामर्थ्यम्। अजहत्स्वार्थायां तु वृत्तौ पुरुषशब्दे पुरुषमात्राभिधायिनि सर्वशब्देषु च प्रतिनियतार्थाभिनिवेशिषु संसर्ग एव सामर्थ्यम्। नात्यन्तमजहत्स्वार्थायां वृत्तौ पुरुषादिषु सम्बन्धिशब्देषु सर्वशब्दानां चासमर्थयोनित्वाभ्युपगमे समाप्तौ भेदसंसर्गौ सामर्थ्यमित्याख्यायते— (वाप. ३.१४.९९)
वृत्तिं वर्तयतामेवमबुधप्रतिपत्तये।
भिन्नाः सम्बोधनोपायाः पुरुषेष्वनवस्थिताः॥ १३॥
न हि परमार्थतः पराकृतपूर्वोत्तरविभागसंस्पर्शेन सङ्घातेनातिशयवत्यर्थेऽ— भिधीयमाने भेदसंसर्गदर्शनावकाशः कश्चिदस्ति। तस्मादसत्येन भेदसंसर्गदर्शनेन सत्यस्समुदायार्थो निरूप्यत इति॥
पदार्थस्त्रिधा— १. जातिः, २. व्यक्तिः, ३. आकृतिश्च। तत्र—
भिन्नष्वभिन्नप्रत्ययनिमित्तं जातिः।
सा त्रिधा द्रव्यजातिः, गुणजातिः, क्रियाजातिश्च। तासु—