भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 181 to 190 of 841 verses
परस्मैपदतो वापि मन्यन्ते तमुपग्रहम्॥ १५॥

(वाप. ३.१२.१)

यथा— नाथति नाथते, शपति शपते, आह्वयति आह्वयते, प्रतिजानाति प्रतिजानीत इति। अत्र 'आशिषि नाथः' {३.१.२१ (७)}, 'शपः शपथे' 'स्पर्धायामाङः' (१.३.३०—३१), 'सम्प्रतिभ्यामनाध्याने' ह्वः (१.३.४४, ४६) ज्ञः इति आत्मनेपदम्; शेषे परस्मैपदमित्यर्थभेदाः। एवं —

मुण्डो भीषयते, कुञ्चिकयैनं भाययति, जटिलो विस्मापयते, मत्यैनं विस्मापयति। श्येनो वर्तिकामुल्लापयते, कस्त्वामुल्लापयति, संप्रवदन्ते ग्राग्याः, संप्रवदन्ति शकुनय इति। अत्र 'भीस्म्योर्हेतुभये', 'लियः सम्माननशालिनी— करणयोश्‍च', 'व्यक्तवाचां समुच्‍चारणे' वदः (इति) आत्मनेपदम्, शेषे परस्मैपदमित्यर्थभेदः। एवमन्यदप्यूहनीयम्।

ननु च 'य आत्मनेपदाद् भेदः क्‍वचिदर्थस्य गम्यत' इति, अत्र कवचिद्‍ग्रहणं किमर्थम् ?

उच्यते परस्मैपदात्मनेपदोभयपदिनामात्मनेपदपरस्मैपदोभयपदयोगः षट्‍प्रकारो भवति— 'प्रकृतिनिमित्तः, प्रकृत्यर्थनिमित्तः, प्रत्ययनिमित्तः, प्रत्ययार्थनिमित्तः, उपस्कारनिमित्तः, उपस्कारार्थनिमित्तश्‍च। तत्रार्थनिमित्तेषु यथायोगमर्थावगतिहेतुत्वं विद्यते। शेषेषु तु न विद्यते इति 'क्‍वचिद्—'ग्रहणेन ज्ञापयति। तत्र—

(आत्मनेपदयोगे)

आत्मनेपदयोगः प्रकृतिनिमित्तो यथा—'अनुदात्तङित आत्मनेपदम्' (१.३.१२); 'सनः' 'स्मृदृशिभ्याम्', एधते, च्यवते, सुस्मूर्षते, दिदृक्षत इति।

प्रकृत्यर्थनिमित्तो यथा— 'प्रकाशनस्थेयाख्ययोश्‍च' (१.३.२३), 'भुजोऽनवने' (१.३.६६), 'गृधिवञ्च्योः प्रलम्भने' (१.३.६९), 'कर्मव्यतीहारे' (१.३.१४) तिष्ठते, भुङ्क्ते, गन्धयते, व्यतिलुनीत इति।

प्रत्ययनिमित्तो यथा—'शदेश्शितः' (१.३.६०), 'म्रियतेर्लुङ्‍‌लिङोश्‍च' (१.३.६१), शीयते, म्रियते, अमृत, मृषीष्टेति।

Showing 181 to 190 of 841 verses