परस्मैपदतो वापि मन्यन्ते तमुपग्रहम्॥ १५॥
यथा— नाथति नाथते, शपति शपते, आह्वयति आह्वयते, प्रतिजानाति प्रतिजानीत इति। अत्र 'आशिषि नाथः' {३.१.२१ (७)}, 'शपः शपथे' 'स्पर्धायामाङः' (१.३.३०—३१), 'सम्प्रतिभ्यामनाध्याने' ह्वः (१.३.४४, ४६) ज्ञः इति आत्मनेपदम्; शेषे परस्मैपदमित्यर्थभेदाः। एवं —
मुण्डो भीषयते, कुञ्चिकयैनं भाययति, जटिलो विस्मापयते, मत्यैनं विस्मापयति। श्येनो वर्तिकामुल्लापयते, कस्त्वामुल्लापयति, संप्रवदन्ते ग्राग्याः, संप्रवदन्ति शकुनय इति। अत्र 'भीस्म्योर्हेतुभये', 'लियः सम्माननशालिनी— करणयोश्च', 'व्यक्तवाचां समुच्चारणे' वदः (इति) आत्मनेपदम्, शेषे परस्मैपदमित्यर्थभेदः। एवमन्यदप्यूहनीयम्।
ननु च 'य आत्मनेपदाद् भेदः क्वचिदर्थस्य गम्यत' इति, अत्र कवचिद्ग्रहणं किमर्थम् ?
उच्यते परस्मैपदात्मनेपदोभयपदिनामात्मनेपदपरस्मैपदोभयपदयोगः षट्प्रकारो भवति— 'प्रकृतिनिमित्तः, प्रकृत्यर्थनिमित्तः, प्रत्ययनिमित्तः, प्रत्ययार्थनिमित्तः, उपस्कारनिमित्तः, उपस्कारार्थनिमित्तश्च। तत्रार्थनिमित्तेषु यथायोगमर्थावगतिहेतुत्वं विद्यते। शेषेषु तु न विद्यते इति 'क्वचिद्—'ग्रहणेन ज्ञापयति। तत्र—
आत्मनेपदयोगः प्रकृतिनिमित्तो यथा—'अनुदात्तङित आत्मनेपदम्' (१.३.१२); 'सनः' 'स्मृदृशिभ्याम्', एधते, च्यवते, सुस्मूर्षते, दिदृक्षत इति।
प्रकृत्यर्थनिमित्तो यथा— 'प्रकाशनस्थेयाख्ययोश्च' (१.३.२३), 'भुजोऽनवने' (१.३.६६), 'गृधिवञ्च्योः प्रलम्भने' (१.३.६९), 'कर्मव्यतीहारे' (१.३.१४) तिष्ठते, भुङ्क्ते, गन्धयते, व्यतिलुनीत इति।
प्रत्ययनिमित्तो यथा—'शदेश्शितः' (१.३.६०), 'म्रियतेर्लुङ्लिङोश्च' (१.३.६१), शीयते, म्रियते, अमृत, मृषीष्टेति।