स्मरत्यदो दाशरथिर्भवन् भवानमुं वनान्ताद् वनितापहारिणम्।
पयोधिमाबद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकषा हनिष्यति॥ ११॥
भूतस्य भविष्यदनुप्रवेशे यथा— मास्म कार्षीः, मास्म करोः (मभा. ३.३.१७६), देवश्चेद् वृष्टस्सम्पन्नाः शालयः इति (मभा. ३.३.१३३)।
अपकर्ताऽहमस्मीति मा ते मनसि भूद् भयम्॥ १२॥
मा स्म सीमन्तिनी काचिज्जनयेत् पुत्रमीदृशम्॥ १३॥
जातश्चायं मुखेन्दुस्ते भ्रुकुटीप्रणयी पुनः।