भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 141 to 150 of 841 verses
तव्यादिविषयो यथा— स्वाध्यायोऽध्येतव्यः, ब्राह्मणो न हन्तव्यः, पितरो वन्दनीयाः, गुरवो माननीयाः, कृत्यं न भावयेत्, कार्यं न कुर्यादिति।

तुमुनादिविषयो यथा—भोक्तुमैच्छत् इच्छति एषिष्यति वा, भुक्त्वा अव्राजीत् व्रजति व्रजिष्यति वा, अधीत्यास्‍नासीत् स्‍नाति स्‍नास्यति वा, चोरङ्कारमाक्रुक्षत् आक्रोशति आक्रोक्ष्यति वा, पायंपायमासिष्‍ट आस्ते आसिष्यते वा, रैपोषमपुषत् पुष्यति पोक्ष्यति वेति।

(१०.सङ्कीर्णः—६) कालान्तरसम्पृक्तस्सङ्कीर्णः; सङ्करश्‍चानेकाकारत्वादियत्तया न शक्यते निर्देष्टुमिति भङ्गनिर्वाहार्थं तु षोढैवोदाह्रियते। स—

भूतभूतानद्यतनयोः यथा— अन्येभ्यो वा अभुङ्क्ष्महि।

भविष्यद्भविष्यदनद्यतनयोः यथा— अद्य श्वो वा गमिष्यति।

भूतभविष्यदनद्यतनयोः यथा— अग्‍निष्‍टोमयाजी अस्य पुत्रो जनिता। (३.४.१)

भूतानद्यतनभविष्यतोः यथा— भाविकृत्यमासीत्।

वर्तमानपरोक्षयोः यथा— (कुसं. ३.७२)

क्रोधं प्रभो संहर संहरेति यावद्‌गिरः खे मरूतां चरन्ति।

तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार॥ ९॥

Showing 141 to 150 of 841 verses