भविष्यद्वर्तमानपरोक्षाणां यथा— (माघ. ३.७४)
सादोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी।
तान्येकदेशान्निभृतं पयोधेस्सोऽम्भांसि मेघान् पिबतो ददर्श॥ १०॥
(११. प्रकीर्णः) वर्तमानस्य भविष्यद्भूतयोरनुवेशे प्रकीर्णः। स
भविष्यदनुप्रवेशे आशंसायां यथा— उपाध्यायश्चेदागच्छति युक्ता व्याकरणमधीमहे।
लिप्सायां यथा— कोपयतो भोजयति (कं भवन्तो भोजयन्ति)।
यावत्पुरायोगे यथा— यावद् भुङ्क्ते, पुरा व्रजति।
सामीप्ये यथा— कदा ग्रामं गमिष्यसि, एष गच्छामि, गच्छन्तमेव मां विद्धि। एवं
भूतानुप्रवेशेऽपि; भूतसामीप्ये यथा— अयि भोः कटमकार्षोः, कटं देवदत्त ननु करोमि, अयं नु करोमीति।
(१२. विप्रकीर्णः) भविष्यतो भूतानुप्रवेशे भूतस्य भविष्यदनुप्रवेशो विप्रकीर्णः। स भविष्यतो भूतानुप्रवेशे यथा— स्मरसि देवदत्त काश्मीरेषु वत्स्यामः, अभिजानासि कलिङ्गेषु वत्स्यामः तत्रौदनं भोक्ष्यामहे, स्मरसियत् काश्मीरेषु वत्स्यामः यत् तत्रौदनं भोक्ष्यामह इति। यथा वा—(माघ. १.६८)