भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 151 to 160 of 756 verses
४. शाटकश्‍चेन्न वातव्यो वातव्यश्‍चेन्न शाटकः॥ १९॥

अत्रोच्यते।

५. अन्तस्तत्त्वं बहिस्तत्त्वं निष्पत्तौ द्वयमिष्यते।

अन्तस्तत्त्वं पुरस्कृत्य बहिस्तत्त्वं प्रकाशते॥ २०॥

६. द्वयी सत्ता पदार्थानां बाह्या चाभ्यन्तरीति च।

आन्तरी व्यवहारार्था बाह्या त्वर्थक्रियां प्रति॥ २१॥

अन्यथा ह्यङ्‌कुरो जायत इत्यपि न स्यात्। अत इदमुक्तमं उपक्रमप्रभृत्य— पवर्गपर्यन्तमन्तः प्रतिभया साकल्येनोल्लिख्य साध्यत्वेनाध्यवसितः पुरुषव्यापारः क्रियेति। न च पुरुषव्यापारस्य क्रियात्वम्; रथो गच्छति, कूलं पततीत्यादिप्रयोगाभावः उपचारो वा। पुरुषशब्देनेह प्रथममध्यमोत्तमलादेशत्रिकाभिधेययोः कर्तृकर्मणोरभिधानात्।

न चैवमेतद् व्यापारयोरेव क्रियात्वं, फलाभिधेयत्वेन प्राधान्यतः कारकोपलक्षणत्वात्।

यथा च भागाः पचतेश्‍चलनज्वलनादयः।

चलनज्वलनादीनां ज्ञेया भागास्तथाऽपरे॥ २२॥

Showing 151 to 160 of 756 verses