भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 171 to 180 of 756 verses
नैवम्, अत्रापि क्रमस्य प्रतीयमानत्वात्। तथा हि—

कालानुपाति यद्रूपं तदस्तीत्यपदिश्यते।

परितस्तु परिच्छिन्नं भाव इत्येव कथ्यते॥ २३॥

(वाप. ३.८.१२)

एवं विद्यते तिष्ठतीत्यत्रापि द्रष्टव्यम्; कालाधिकारे चैतद् विशेषतो वर्णयिष्यामः। नापि क्षणशः क्रमजन्मता अधिश्रयणादीनाम्, उत्पन्नमात्रप्रध्वंसित्वाद्, अयौगपद्ये समूहानुपपत्तेः। तदभावे च कथमिव अभिन्नेषु भिन्नशब्दो वर्ततां पचतीति।

उच्यते—क्रमोपजातावयवपरिच्छेदप्राप्त—संस्कारान्तं यदा सकलं क्रियाकलापत्तेः (कलापं) कलयति, तदा प्रत्ययः परिवर्ति समुदाय एककार्यत्वादपिहितभेदः पचतीत्या— दिशब्दव्यपदेशनिमित्तं भवति। तथा ओदनादिकार्यक्रियाकलापस्तिरोधाय भेदमभेदेन व्यपदिश्‍यते। पचतीति फलस्य च सकसक्रियावयवसाध्यत्वात् साधनभावेनापि स एवापेक्ष्यते। तदनन्त(तदन्त ?)र्गतास्त्वधिश्रयणादयः प्रत्येकं फलमभिनिर्वर्तयितुमपर्याप्‍ताः पर्याप्‍तस्य समुदायस्य रूपसम्पादनार्थत्वात् समुदायं प्रति गुणभूता विज्ञायन्ते। तदाह—

गुणभूतैरवयवैस्समूहः क्रमजन्मनाम्।

बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्‍यते॥ २४॥

(वाप. ३.८.४)

यद्येवं पचतीति व्यपदेशो नोपपद्यते, धातूपादाना क्रिया यदा नातीता न चानागता, तदा वर्तमानकालविहितः प्रत्ययः प्रयुज्यते। न चास्य क्रियाप्रतानस्येयं व्यवस्था संभवति, अधिश्रयणादीनां पूर्वापरीभावनियमात्। न चैकः क्रियाभागः पचतिशब्दनिबन्धनं, शब्दशक्तिस्वभावात्। न ह्युपात्तक्रियावयवार्थप्रत्यायकश्शब्दो यथाभूतमर्थं प्रत्याययति; ततश्‍च कथमेकस्य वर्तमानकालतां प्रत्ययोऽनुरुध्येत ?

Showing 171 to 180 of 756 verses