नैवम्, अत्रापि क्रमस्य प्रतीयमानत्वात्। तथा हि—
कालानुपाति यद्रूपं तदस्तीत्यपदिश्यते।
परितस्तु परिच्छिन्नं भाव इत्येव कथ्यते॥ २३॥
एवं विद्यते तिष्ठतीत्यत्रापि द्रष्टव्यम्; कालाधिकारे चैतद् विशेषतो वर्णयिष्यामः। नापि क्षणशः क्रमजन्मता अधिश्रयणादीनाम्, उत्पन्नमात्रप्रध्वंसित्वाद्, अयौगपद्ये समूहानुपपत्तेः। तदभावे च कथमिव अभिन्नेषु भिन्नशब्दो वर्ततां पचतीति।
उच्यते—क्रमोपजातावयवपरिच्छेदप्राप्त—संस्कारान्तं यदा सकलं क्रियाकलापत्तेः (कलापं) कलयति, तदा प्रत्ययः परिवर्ति समुदाय एककार्यत्वादपिहितभेदः पचतीत्या— दिशब्दव्यपदेशनिमित्तं भवति। तथा ओदनादिकार्यक्रियाकलापस्तिरोधाय भेदमभेदेन व्यपदिश्यते। पचतीति फलस्य च सकसक्रियावयवसाध्यत्वात् साधनभावेनापि स एवापेक्ष्यते। तदनन्त(तदन्त ?)र्गतास्त्वधिश्रयणादयः प्रत्येकं फलमभिनिर्वर्तयितुमपर्याप्ताः पर्याप्तस्य समुदायस्य रूपसम्पादनार्थत्वात् समुदायं प्रति गुणभूता विज्ञायन्ते। तदाह—
गुणभूतैरवयवैस्समूहः क्रमजन्मनाम्।
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते॥ २४॥
यद्येवं पचतीति व्यपदेशो नोपपद्यते, धातूपादाना क्रिया यदा नातीता न चानागता, तदा वर्तमानकालविहितः प्रत्ययः प्रयुज्यते। न चास्य क्रियाप्रतानस्येयं व्यवस्था संभवति, अधिश्रयणादीनां पूर्वापरीभावनियमात्। न चैकः क्रियाभागः पचतिशब्दनिबन्धनं, शब्दशक्तिस्वभावात्। न ह्युपात्तक्रियावयवार्थप्रत्यायकश्शब्दो यथाभूतमर्थं प्रत्याययति; ततश्च कथमेकस्य वर्तमानकालतां प्रत्ययोऽनुरुध्येत ?