भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 181 to 190 of 756 verses
नैतदस्ति; शब्दशक्तयो हि भिन्नरूपामभिन्नामर्थव्यक्तिमुपात्तभेदां दर्शयन्ति; यतः पूर्वापरीभूतावयवसमुदायावग्रहरूपा बुद्धिर्यथाऽवगृहीतं समुदायाकारमवयवेषु प्रत्यस्यति; तेऽवयवाः प्रत्ययेन समारोपितसमुदायरूपाः पचतिशब्दवाच्यास्सन्तः स्वरूपसन्निधानात् तंवर्तमानादिव्यपदेशमनुभूय प्रत्ययविशोषोत्पत्तिनिमित्तं भवन्ति। तथा हि—अभिसमीहितफळः क्रियायां फलोपजननसाधनभूतायां प्रवर्तमानः पुमान् समुदायमेवाधाय चेतसि तास्ववयवक्रियासु प्रवर्तते। ततो ह्यस्य समुदायाभिसन्धिसमुत्थापिताः क्रियाभागाः समुदायसंपादनार्थत्वात् समुदायरूपेणाध्यवसीयन्ते। तथाध्यवसितक्रियारूपैस्तु तस्य क्रियाक्षणस्य सन्निधानाद्‌वर्तमानकालविहितः प्रत्ययः प्रयुज्यते पचतीति। अत्र चोत्पन्नामात्र— प्रध्वंसित्वात् सर्वे क्रियावयवा वर्तमाना च संभवन्तीति स्फुटमेवावसीयते; किन्तु प्रत्येकं समुदायिषु समुदायाध्यासेन प्रयुज्यते पचतीति। अधिश्रयणाद्यवयवक्रियासमुदायवचनेषु पचादिषु यस्मिन्नवयवेऽध्यारोप्य समुदायोऽधिश्रयणादिः विल्कित्त्यन्तः प्रत्याय्यते, तत्कालप्रत्ययोऽनुवर्तते। तत्र तदा वर्तमानावयवे समुदायाध्यासस्तदा पचतीति भवति। यदा तु भूतभविष्ययोस्समूहारोपणे तदाऽपाक्षीत् पक्ष्यतीति। यदुक्तम्—

समूहस्स तथाभूतः प्रतिभेदं समूहिषु।

समाप्यते ततो भेदे कालभेदस्य संभवः॥ २५॥

(वाप. ३.८.५)

समुदायस्य च समुदायिषु प्रत्येकपरिसमाप्‍तौ निदर्शनं ग्रामो दग्धः, पटो दग्ध इति। यदि ह्येकस्मिन्नंशे समुदायो न स्यात्, पाणिमात्रस्याङ्गुलिमात्रस्य वा चण्डालत्वविरहात् चण्डालपाण्यङ्गुलिस्पर्शे नैवोच्येत चण्डालः स्पृष्ट इति, न चाङ्गविकारेणाङ्गिनो विकृतिर्लक्ष्यते, अक्ष्णा काण इति।

तदुक्तम् 'अवयवे हि स्पृष्टे समुदायोऽपि स्पृष्टो भवति; अवयवे हि कृतं लिङ्गं समुदायस्यापि विशेषकं भवति (मभा. १.३.६२); यश्‍च समुदायः सोऽवयवान्न व्यभिचरित। तस्य विशेषकं यथा 'गोस्सक्‍थनि कण्ठेऽपि कृतं लिङ्गं गोरेव विशेषकं न गोमण्डलस्य' इति। तदेवमुक्ते किमुक्तं भवति उपात्तक्रमाधिश्रयणादिविक्‍लित्यन्तानामववानां समुदायः पचतिक्रियेति ? तर्हि चिरं जीवतु भवान्; भवतैव प्रतिज्ञाता नैव क्रिया प्रत्यक्षेति। तस्मादुपात्तक्रिया क्रमाः क्रियावयवाः; तदस्य क्रियासङ्घातस्य केचिदवयवा निवृत्ताः, केचिदनिवृत्ताः, कश्‍चिदेव प्रत्युपस्थितः। प्रत्युपस्थितविषयाः चक्षुरादयः; ततोऽथ क्रियाकलापाः प्रत्यक्षयितुम्, चक्षुरादिभिरनभिसंबन्धात्; न व्यतीतानागतरूपस्यासतः क्रियावयवस्य सदसदनुपातिना करणग्रामेण संबन्धः, न वाऽनधिगतेन्द्रियसंबन्धस्य पदार्थस्य दर्शनपरिच्छेद्यता संभवति। तदुक्तम्—

क्रमात् सदसतां तेषामात्मानो न समूहिनाम्।

सद्‌वस्तुविषयैर्यान्ति संबन्धं चक्षुरादिभिः॥ २६॥

(वाप. ३.८.६)

दर्शनाभिमानः कथमिति चेत्, यथा गौरश्व इत्येवमादिषु पदेषु गकारादयो वर्णभागाः क्रमरूपानुविधायिनो व्यक्तावुपजने वा प्राप्तयौगपद्याः सङ्घातरूपेण न पार्यन्तेऽवधारयितुम् इन्द्रियायत्तया बुद्ध्या, तस्याः प्रत्युपस्थिताक्षरावसायशक्तेः पूर्वोत्तरभागयोरसंस्पर्शात्। समभिहितावयवपरिच्छेदप्रापितातिशयास्तु बुद्धयः स्वानुरूपं संस्कारपरम्परायामन्ते समालोचितविशेषवर्णभागामुपजनयन्ति बुद्धिं तस्यामुत्तीर्णमिव तत्पदं समुदायात्मना निरूप्यते। तदाह—

Showing 181 to 190 of 756 verses