विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः।
यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ ३७ ॥
(२) औपश्लेषिकमपि द्विधा— एकदेशिकमभिव्यापकं च।
तयोराद्यं यथा— (माघ. १०.३९)
स्वर्शभाजि विशदच्छविचारौ कल्पिते मृगदूशां सुरताय।
सन्नतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च ॥ ३८ ॥
द्वितीयं यथा—(किराता. ९.६३)
रागकान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु।
सर्वथापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ॥ ३९ ॥