भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 181 to 190 of 1013 verses
(बहिरङ्गभेदेषु) करणं संप्रदानमपादानमधिकरणं चेति। (द्र. पृ॰ ८४)

(कर्त्ता) तत्राऽन्तरङ्गभेदेषु कर्त्ता १. शुद्धः २. मिश्रः ३. संकीर्णश्‍च। तेषु —

१. क्रियाकारकान्तरासंपृक्‍तः शुद्धः। यथा इष्टमनेन इष्टी यज्ञे, कृतः पूर्वं कटोऽनेन कृतपूर्वी कटमिति।

२. क्रियान्तरसंपृक्‍तो मिश्रः। यथा— व्याकरणं वेत्ति अधीते वा वैयाकरणः, शश्‍वद् भवः शाश्‍वतिकः इति।

३. क्रियाकारकान्तरसंपृक्तः संकीर्णः। यथा— शालयां प्रवेशमर्हति शालीनः अधृष्टः, कूपे प्रक्षेपणमर्हति इति कौपीनमकार्यम्।

(हेतुकर्त्ता) हेतुः १. आत्मस्थक्रियः, २. परस्थक्रियः, ३. परात्मस्थक्रियश्‍चेति। तेषु —

१. आत्मस्थक्रियो यथा— पारायणं वर्त्तयति पारायणिकः, चान्द्रायणं वर्त्तयति चान्द्रायणिकः इति।

२. परस्थक्रियो यथा— वातं शमयति वातिकं तैलम्, पित्तं कोपयति पैत्तिकमिति।

३. परात्मस्थक्रियो यथा— यथामुखं दर्शयते यथामुखीन आदर्शः, संमुखं दर्शयते संमुखीनः प्रेयानिति।

कर्मकर्त्ता १. अनुद्रिक्‍तकर्मांशः २. उद्रिक्‍तकर्मांशः, ३. अनुद्रिक्‍तोद्रिक्‍तकर्मांशश्‍च।

Showing 181 to 190 of 1013 verses