६. संबन्धिरूपाणि यथा— अन्तः, अन्तरा, ऊर्ध्वम्, बहिः, पारे, मध्ये, समया, निकषा, आरात्, विष्वक्, पुरः, पश्चात् इति।
१. क्रियापेक्षीणि यथा— द्वन्द्वम्, यथायथम्, मिथः, अन्योन्यम्, परस्परम्, इतरेतराम्, परोपराम्, उत्तराधरम्, अधरोत्तरमिति।
२. क्रियाद्रव्यापेक्षीणि यथा— साकम्, सार्धम्, सह, समम्, अमा, विना, ऋते, पृथक्, नाना, अपृथगिति।
३. क्रियाविशेषणानि यथा— अभीक्ष्णम्, मुहुः, पुनः, भूयः, युगपत्, अजस्त्रम्, अनिशम्, शनैः, उपांशु, मङ्क्षु, झटिति, प्राय इति।
४. क्रियाद्रव्यविशेषणानि यथा— अलम्, बलवत्, सुष्ठु, मृषा, वृथा, मिथ्या, मुधा, अद्धा, ऋधक्, उच्चैः, नीचैरिति।
५. क्रियाविशिष्टरूपाणि यथा— शश्वत्, सपदि, संप्रति, पुरा, असंप्रति, सनातनम्, साम्प्रतम्, जातु, बाढम्, फाण्टम्, स्वयम्, कामम् इति।
६. क्रियाद्रव्यविशिष्टरूपाणि यथा— आविः, प्रादुः, तिरस्, साक्षात्, अलम्, प्राध्वम्, सत्, असत्, धिक्, हिरुक्, तूष्णीम्, जोषम् इति।
(२. अव्ययप्रातिपदिकेषु निपाताः)
जात्यादिप्रवृत्तिनिमित्तानुपग्राहित्वेन असत्त्वभूतार्थाभिधायिनोऽलिङ्गसंख्याशक्तय उच्चावचेष्वर्थेषु निपतन्तीत्यव्ययविशेषा एव चादयो निपाताः। यदाह—'चादयोऽसत्त्वे' (१.४.५७) इति।