भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 171 to 180 of 1182 verses
(१. अव्ययप्रातिपदिकेषु अव्ययानि)

तानि (अव्ययानि) द्विधा १. सत्त्वगन्धीनि २. असत्त्वगन्धीनि च। तेषु— सत्त्वगन्धीनि षोढा १. द्रव्यरूपाणि, २. गुणरूपाणि, ३, क्रियारूपाणि, ४. जातिरूपाणि, ५. संज्ञारूपाणि, ६. सम्बन्धिरूपाणीति।

असत्त्वगन्धीन्यपि षोढैव

१. क्रियापेक्षीणि, २. क्रियाद्रव्यापेक्षीणि, ३. क्रियाविशेषणानि, ४. क्रियाद्रव्यविशेषणानि, ५. क्रियाविशिष्टरूपाणि, ६. क्रियाद्रव्यविशिष्टरूपाणि चेति। तत्र—

सत्त्वगन्धिभेदेषु

१. द्रव्यरूपाणि यथा— स्वः, दिवं, भुवः, विहायसा, रोदसी, आपः, भूः, ऋचः, शम्, महः, तपः, हाहा, हूहू, इति।

२. गुणरूपाणि यथा— शश्‍वत्, आपत्, नृपत्, कूपत, कुवित्, सामि, साचि, द्राक्, स्त्राक्, ज्योक्, मनाक्, ईषद् इति।

३. क्रियारूपाणि यथा—नमः, स्वस्ति, स्वाहा, स्वधा, वषट्, वौषट्, श्रौषट्, हन्त, अच्छ, अवः, परिवः एव इति।

४. जातिरूपाणि यथा— कम्, शंयोः मयः, सायम्, प्रातः, अस्तम्, नक्‍तम्, दिवा, दोषा, ह्यः, श्‍वः' इति।

५. संज्ञारूपाणि यथा— क्‍िवम्, सः, सोम्, स्वाहा, ह्राम्, ह्रीम्, ब्रूम्, दिङ्, ह्नेङ्, ऋङ्, दुङ् इति।

Showing 171 to 180 of 1182 verses